तथा ब्रुवन्तीं करुणं रुदन्ती- मवेक्षमाणां कृपणान्पतींस्तान्। दुःशासनः परुषाण्यप्रियाणि वाक्यान्युवाचामधुराणि चैव
तां कृष्यमाणां च रजस्वलां च स्रस्तोत्तरीयामतदर्हमाणाम्। वृकोदरः प्रेक्ष्य युधिष्ठिरं च चकार कोपं परमार्तरूपः
पुरस्तात्करणीयं मे न कृतं कार्यमुत्तरम्। विह्वलाऽस्मि कृताऽनेन कर्षता बलिना बलात्
अभिवादं करोम्येषां कुरूणां कुरुसंसदि। न मे स्यादपराधोऽयं तदिदं न कृतं मया।। वैशम्पायन उवाच
सा तेन च समाधूता दुःखेन च तपस्विनी। पतिता विललापेदं सभायामतथोचिता
स्वयंवरे यास्मि नृपैदृष्टा रङ्गे समागतैः। न दृष्टपूर्वा चान्यत्र साऽहमद्य सभां गता
यां न वायुर्न चादित्यो दृष्टवन्तौ पुरा गृहे। साऽहमद्य सभामध्ये दृष्टास्मि जनसंसदि
यां न मृष्यन्ति वातेन स्पृश्यमानां गृहे पुरा। स्पृश्यमानां सहन्तेऽद्य पाण्डवास्तां दूरात्मना
मृष्यन्ति कुरवश्चेमे मन्ये कालस्य पर्ययम्। स्नुषां दुहितरं चैव क्लिश्यमानामनर्हतीम्
किंन्वतः कृपणं भूयो यदहं स्त्री सती शुभा। सभामध्यं विगाहेऽद्य क्व नु धर्मो महीक्षिताम्
धर्म्यं स्त्रियं सभां पूर्वे न नयन्तीति नः श्रुतम्। स नष्टः कौरवेयेषु पूर्वो धर्मः सनातनः
कथं हि भार्या पाण्डुनां पार्षतस्य स्वसा सती। वासुदेवस्य च सखी पार्थिवानां सभामियाम्
तामिमां धर्मराजस्य भार्यां सदृशवर्णजाम्। ब्रूत दासीमदासीं वा तत्करिष्यामि कौरवाः
अयं मां सुदृढं क्षुद्रः कौरवाणां यशोहरः. क्लिश्नाति नाहं तत्सोढुं क्षुद्रः कौरवाणां यशोहरः
जितां वाऽप्यजितां वापि मन्यध्वं मां यथा नृपाः। तथा प्रत्युक्तमिच्छामि तत्करिष्यामि कौरवाः
उक्तवानस्मि कल्याणि धर्मस्य परमा गतिः। लोके न शक्यते ज्ञातुमपि विज्ञैर्महात्मभिः
बलवांश्च यथा धर्मं लोके पश्यति पुरुषः।। स धर्मो धर्मवेलायां भवत्यभिहतः परः
न विवेक्तुं च ते प्रश्नमिमं शक्नोमि निश्चयात्। सूक्ष्मत्वाद्गहनत्वाच्च कार्यस्यास्य च गौरवात्
नूनमन्तः कुलस्यास्य भविता न चिरादिव। तथा हि कुरवः सर्वे लोभमोहपरायणाः
कुलेषु जाताः कल्याणि व्यसनैराहता भृशम्। धर्म्यान्मार्गान्न च्यवन्ते येषां नस्त्वं बधूः स्थिता
उपपन्नं च पाञ्चालि तवेदं वृत्तमीदृशम्। यत्कृच्छ्रमपि सम्प्राप्ता धर्ममेवान्ववेक्षसे
एते द्रोणादयश्चैव वृद्धा धर्मविदो जनाः। शून्यैः शरीरैस्तिष्ठन्ति गतासव इवानताः
युधिष्ठिरस्तु प्रश्नोऽस्मिन्प्रमाणमिति मे मतिः। अजितां वा जितां वेति स्वयं व्याख्यातुमर्हति
तथा तु दृष्ट्वा बहु तत्र देवीं रोरूयमाणां कुररीमिवार्ताम्। नोचुर्वचः साध्वथवाऽप्यसाधु महीक्षितो धार्तराष्ट्रस्य भीताः
दृष्ट्वा तथा पार्थिवपुत्रपौत्रां- स्तूष्णींभूतान्धृतराष्ट्रस्य पुत्रः। स्मयन्निवेदं वचनं बभाषे पाञ्चालराजस्य सुतां तदानीम्
तिष्ठत्वयं प्रश्न उदारसत्वे भीमेऽर्जुने सहदेवे तथैव। पत्यौ च ते नकुले याज्ञसेनि वदन्त्वेते वचनं त्वत्प्रसूतम्
अनीश्वरं विब्रुवन्त्वार्यमध्ये युधिष्ठिरं तव पाञ्चालि हेतोः। कुर्वन्तु सर्वे चानृतं धर्मराजं पाञ्चालि त्वं मोक्ष्यसे दासभावात्
धर्मे स्थितो धर्मसुतो महात्मा स्वयं चेदं कथयत्विन्द्रकल्पः। ईशो वा ते ह्यनीशोऽथवैष वाक्यादस्य क्षिप्रमेकं भजस्व
सर्वे हीमे कौरवेयाः सभायां दुःखान्तरे वर्तमानास्तवैव। न विब्रुवन्त्यार्यसत्वा यथाव- त्पतींश्च ते समवेक्ष्याल्पभाग्यान्
ततः सभ्याः कुरुराजस्य तस्य वाक्यं सर्वे प्रशशंसुस्तथोच्चैः। चेलावेधांश्चापि चक्रुर्नदन्तो हाहेत्यासीदपि चैवार्तनादः