ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः। विहाय मानं पुनरेव सभ्या- नुवाच कृष्णां किमहं ब्रवीमि
दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः। स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः
ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः। प्रविश्य तद्वेश्म महारथाना- मित्यब्रवीद्द्रौपदीं राजपुत्रीम्
एह्येहि पाञ्चालि राजपुत्रीम्। दुर्योधनं पश्य विमुक्तलज्जा। कुरून्भजस्वायतपत्रनेत्रे धर्मेण लब्धाऽसि सभां परैहि
ततः समुत्थाय सुदूर्मनाः सा विवर्णमामृज्य मुखं करेण। आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य
ततो जवेनाभिससार रोषा- द्दुःशासनस्तामभिगर्जमानः। दीर्घेषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम्
ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः। ते पाण्डवानां परिभूय वीर्यं बलात्प्रमृष्टा धृतराष्ट्रजेन
स तां पराकृष्य सभासमीप- मानीय कृष्णामतिदीर्घकेशीम्। दुःशासनो नाथवतीमनाथव- च्चकर्ष वायुः कदलीमिवार्ताम्
सा कृष्णमाणा नमिताङ्गयष्टिः शनैरुवाचाथ रजस्वलाऽस्मि। एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य
ततोऽब्रवीत्तां प्रसभं निगृह्य केशेशु कृष्णेषु तदा स कृष्णाम्। कृष्णं च जिष्णुं च हरिं नरं च त्रायाय विक्रोशति याज्ञसेनि
रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथवा विवस्त्रा। द्यूते जिता चासि कृताऽसि दासी दासीषु वासश्च यथोपजोषम्
प्रकीर्णकेशी पतितार्धवस्त्रा दुःशासनेन व्यवधूयमाना। हीमत्यमर्षेण च दह्यमाना शनैरिदं वाक्यमुवाच कृष्णा
इमे समायामुपनीतशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः। गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम्
नशंसकर्मंस्त्वमनार्यवृत मा मा विवस्त्रां कुरु मा विकार्षीः। न मर्षयेयुस्तव राजपुत्राः सेन्द्रापि देवा यदि ते सहायाः
धर्मे स्थितो धर्मसुतो महात्मा धर्मश्च सूक्ष्मो निपुणोपलक्ष्यः। वाचापि भर्तुः परमाणुमात्र- मिच्छामि दोषं न गुणान्विसृज्य
इदं त्वकार्यं कुरुवीरमध्ये रजस्वलां यत्परिकर्षसे माम्। न चापि कश्चित्कुरुतेऽत्र कुत्सां ध्रुवं तवेदं मतमभ्युपेतः
धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम्। यत्र ह्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम्
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं क्षत्तुस्तथैवास्य चनास्ति सत्त्वं क्षत्तुस्तथैवास्य महात्मनोपि। न लक्षयन्ति कुरुवृद्धमुख्याः
तथा ब्रुवन्ती करुणं सुमध्यमा भर्तॄन्कटाक्षैः कुपितानपश्यत्। सा पाण्डवान्कोपपरीतदेहा- न्सन्दीपयामास कटाक्षपातैः
हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव। यथा त्रपाकोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम्
दुःशासनश्चापि समीक्ष्य कृष्णा- मवेक्षमाणां कृपणान्पतींस्तान्। आधूय वेगेन विसञ्ज्ञकल्पा- मुवाच दासीति हसन्सशब्दम्
कर्णस्तु तद्वाक्यमतीव हृष्टः सम्पूजयामास हसन्सशब्दम्। गान्धारराजः सुबलस्य पुत्र- स्तथैव दुःशासनमभ्यनन्दत्
सभ्यास्तु ये तत्र बभूवुरन्ये ताभ्यामृते धार्तराष्ट्रेण चैव। तेषामभूद्दुः खमतीव कृष्णां दृष्ट्वा सभायां परिकृष्यमाणाम्
न धर्मसौक्ष्म्यात्सुभगे विवेक्तुं शक्रोमि ते प्रश्नमिमं यथावत्। अस्वाम्यशक्तः पणितुं परस्वं स्त्रियाश्च भर्तुर्वशतां समीक्ष्य
त्यजेत सर्वां पृथिवीं समृद्धां युधिष्ठिरो धर्ममथो न जह्यात्। उक्तं जितोऽस्मीति च पाण्डवेन तस्मान्न शक्नोमि विवेक्तुमेतत्
द्व्यूतेऽद्वितीयः शकुनिर्नरेषु कुन्तीसुतस्तेन निसृष्टकामः। न मन्यते तां निकृतिं युधिष्ठिर- स्तस्मान् ते प्रश्नमिमं ब्रवीमि
आहूय राजा कुशलैरनार्यै- र्दुष्टात्मभिर्नैकृतिकैः सभायाम्। द्यूतप्रियैर्नातिकृतप्रयत्नः कस्मादयं नाम निसृष्टकामः
अशुद्धभावैर्निकृतिप्रवृत्तै- रबुध्यमानः कुरुपाण्डवाग्र्यः। सम्भूय सर्वैश्च जितोऽपि यस्मा- त्पश्चादयं कैतवमभ्युपेतः
तिष्ठन्ति चेमे कुरवः सभाया- मीशाः सुतानां च तथा स्नुपाणाम्। समीक्ष्य सर्वे मम चापि वाक्यं विब्रूत मे प्रश्नमिमं यथावत्
न सा सभा यत्र न सन्ति वृद्धा न ते वृद्धा ये न वदन्ति धर्मम्। नासौ धर्मो यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम्