सभ्यास्त्वमी राजपुत्र्याह्वयन्ति मन्ये प्राप्तः संशयः कौरवाणाम्। न वै समृद्दिं पालयते लघीयान् यस्त्वां सभां नेष्यति राजपुत्रि
एवं नूनं व्यदधात्संविधाता स्पर्शावुभौ स्पृशतो वृद्धबालौ। धर्मं त्वेकं परमं प्राह लोके स नः शमं धास्यति गोप्यमानः
सोऽयं धर्मो मा त्यगात्कौरवान्वै सभ्यान्गत्वा पृच्छ धर्म्यं वचो मे। ते मां ब्रूयुर्निश्चितं तत्करिष्ये धर्मात्मानो नीतिमन्तो वरिष्ठाः
श्रुत्वा सूतस्तद्वचो याज्ञसेन्याः सभां गत्वा प्राह वाक्यं तदानीम्। अधोमुखास्ते न च किञ्चिदूचु- र्निर्बन्धं तं धार्तराष्ट्रस्य बुद्ध्वा
युधिष्ठिरस्तु तच्छ्रुत्वा दुर्योधनचिकीर्षितम्। द्रौपद्याः संमतं दूतं प्राहिणोद्भरतर्षभ
एकवस्त्र त्वधोनीवो रोदमाना रजस्वला। सभामागम्य पाञ्चालि श्वशुरस्याग्रतो भव
अथ त्वामागतां दृष्ट्वा राजपुत्रीं सभां तदा। सभ्याः सर्वे विनिन्देरन्मनोर्भिर्धृतराष्ट्रजम्
स गत्वा त्वरितं दूतः कृष्णाया भवनं नृप। न्यवेदयन्मतं धीमान्धर्मराजस्य निश्चितम्
पाण्डवाश्च महात्मानो दीना दुःखसमन्विताः। सत्येनातिपरीताङ्गा नोदीक्षन्ते स्म किञ्चन
ततस्त्वेषां मुखमालोक्य राजा दुर्योधनः सूतमुवाच हृष्टः। इहैवैतामानय प्रातिकामिन् प्रत्यक्षमस्याः कुरवो ब्रुवन्तः
ततः सूतस्तस्य वशानुगामी भीतश्च कोपाद्द्रुपदात्मजायाः। विहाय मानं पुनरेव सभ्या- नुवाच कृष्णां किमहं ब्रवीमि
दुःशासनैष मम सूतपुत्रो वृकोदरादुद्विजतेऽल्पचेताः। स्वयं प्रगृह्यानय याज्ञसेनीं किं ते करिष्यन्त्यवशाः सपत्नाः
ततः समुत्थाय स राजपुत्रः श्रुत्वा भ्रातुः शासनं रक्तदृष्टिः। प्रविश्य तद्वेश्म महारथाना- मित्यब्रवीद्द्रौपदीं राजपुत्रीम्
एह्येहि पाञ्चालि राजपुत्रीम्। दुर्योधनं पश्य विमुक्तलज्जा। कुरून्भजस्वायतपत्रनेत्रे धर्मेण लब्धाऽसि सभां परैहि
ततः समुत्थाय सुदूर्मनाः सा विवर्णमामृज्य मुखं करेण। आर्ता प्रदुद्राव यतः स्त्रियस्ता वृद्धस्य राज्ञः कुरुपुङ्गवस्य
ततो जवेनाभिससार रोषा- द्दुःशासनस्तामभिगर्जमानः। दीर्घेषु नीलेष्वथ चोर्मिमत्सु जग्राह केशेषु नरेन्द्रपत्नीम्
ये राजसूयावभृथे जलेन महाक्रतौ मन्त्रपूतेन सिक्ताः। ते पाण्डवानां परिभूय वीर्यं बलात्प्रमृष्टा धृतराष्ट्रजेन
स तां पराकृष्य सभासमीप- मानीय कृष्णामतिदीर्घकेशीम्। दुःशासनो नाथवतीमनाथव- च्चकर्ष वायुः कदलीमिवार्ताम्
सा कृष्णमाणा नमिताङ्गयष्टिः शनैरुवाचाथ रजस्वलाऽस्मि। एकं च वासो मम मन्दबुद्धे सभां नेतुं नार्हसि मामनार्य
ततोऽब्रवीत्तां प्रसभं निगृह्य केशेशु कृष्णेषु तदा स कृष्णाम्। कृष्णं च जिष्णुं च हरिं नरं च त्रायाय विक्रोशति याज्ञसेनि
रजस्वला वा भव याज्ञसेनि एकाम्बरा वाप्यथवा विवस्त्रा। द्यूते जिता चासि कृताऽसि दासी दासीषु वासश्च यथोपजोषम्
प्रकीर्णकेशी पतितार्धवस्त्रा दुःशासनेन व्यवधूयमाना। हीमत्यमर्षेण च दह्यमाना शनैरिदं वाक्यमुवाच कृष्णा
इमे समायामुपनीतशास्त्राः क्रियावन्तः सर्व एवेन्द्रकल्पाः। गुरुस्थाना गुरवश्चैव सर्वे तेषामग्रे नोत्सहे स्थातुमेवम्
नशंसकर्मंस्त्वमनार्यवृत मा मा विवस्त्रां कुरु मा विकार्षीः। न मर्षयेयुस्तव राजपुत्राः सेन्द्रापि देवा यदि ते सहायाः
धर्मे स्थितो धर्मसुतो महात्मा धर्मश्च सूक्ष्मो निपुणोपलक्ष्यः। वाचापि भर्तुः परमाणुमात्र- मिच्छामि दोषं न गुणान्विसृज्य
इदं त्वकार्यं कुरुवीरमध्ये रजस्वलां यत्परिकर्षसे माम्। न चापि कश्चित्कुरुतेऽत्र कुत्सां ध्रुवं तवेदं मतमभ्युपेतः
धिगस्तु नष्टः खलु भारतानां धर्मस्तथा क्षत्रविदां च वृत्तम्। यत्र ह्यतीतां कुरुधर्मवेलां प्रेक्षन्ति सर्वे कुरवः सभायाम्
द्रोणस्य भीष्मस्य च नास्ति सत्त्वं क्षत्तुस्तथैवास्य चनास्ति सत्त्वं क्षत्तुस्तथैवास्य महात्मनोपि। न लक्षयन्ति कुरुवृद्धमुख्याः
तथा ब्रुवन्ती करुणं सुमध्यमा भर्तॄन्कटाक्षैः कुपितानपश्यत्। सा पाण्डवान्कोपपरीतदेहा- न्सन्दीपयामास कटाक्षपातैः
हृतेन राज्येन तथा धनेन रत्नैश्च मुख्यैर्न तथा बभूव। यथा त्रपाकोपसमीरितेन कृष्णाकटाक्षेण बभूव दुःखम्