शिरो गृहीत्वा विदुरो गतसत्व इवाभवत्। आस्ते ध्यायन्नधोवक्त्रो निः श्वसन्निव पन्नगः
बाह्लीकः सोमदत्तश्च प्रातिपेयश्च सञ्जयः। द्रौणिर्भूरिश्रवाश्चैव युयुत्सुर्धृतराष्ट्रजः। आसुर्वीक्ष्य त्वधोवक्त्रा निश्वसन्त इवोरगाः
धृतराष्ट्रस्तु संहृष्टः पर्यपृच्छत्पुनः पुनः। किं जितं किं जितमिति ह्याकारं नाभ्यरक्षत
जहर्ष कर्णोऽतिभृशं सह दुःशासनादिभिः। इतरेषां तु सभ्यानां नेत्रेभ्यः प्रापतञ्जलम्
सौबलस्त्वभिघायैव जितकाशी मदोत्कटः। जितमित्येव तानक्षान्पुररेवान्वपद्यत
एहि क्षत्तर्द्रौपदीमानस्व प्रियां भार्यां संमतां पाण्डवानाम्। संमार्जतां वेश्म परैतु शीघ्रं तत्रास्तु दासीभिरपुण्यशीला
दर्विभाषं भाषितं त्वादृशेन न मन्द सम्बुद्ध्यसि पाशबद्धः। प्रपाते त्वं लम्बमानो न वेत्सि व्याघ्रान्मृगः कोपयसेऽतिवेलम्
आशीविषास्ते शिरसि पूर्णकोपा महाविषाः। मा कोपिष्ठाः सुमन्दात्मन्मा गमस्त्वं यमक्षयम्
न हि दासीत्वमापन्ना कृष्णा भवितुमर्हति। जनीशेन हि राज्ञैषा पणे न्यस्तेति मे मतिः
अयं दत्ते वेणुरिवात्मघाती फलं राजा धृतराष्ट्रस्य पुत्रः। द्यूतं हि वैराय महाभयाय मत्तो न बुध्यत्ययमन्तकालम्
नारुन्तुदः स्यान्न नृशंसवादी न हीनताः परमभ्याददीत। ययास्य वाचा पर उद्विजेत न तां वदेदुशती पापलोक्याम्
समुच्चरन्त्यतिवादाश्च वक्त्रा- ध्यौराहतः शोचति रात्र्यहानि। परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु
अजो हि शस्त्रमगिलत्किलैकः शस्त्रे विपन्ने शिरसास्य भूमौ। निकृन्तनं स्वस्य कण्ठस्य घोरं तद्वद्वेरं मा कृथाः पाण्डुपुत्रैः
न किञ्चिदित्थं प्रवदन्ति पार्था वनेचरं वा गृहमेधिनं वा। तपस्विनं वा परिपूर्णविद्यं भषन्ति हैवं श्वनराः सदैव
द्वारं सुघोरं नरकस्य जिह्यं न बुध्यते धृतराष्ट्रस्य पुत्रः। तमन्वेतारो बहवः कुरूणां द्यूतोदये सह दुःशासनेन
मज्जन्त्यलाबूनि शिलाः प्लवन्ते मुह्यन्ति नावोम्भसि शश्वदेव। मूढो राजा धृतराष्ट्रस्य पुत्रो न मे वाचः पथ्यरूपाः शृणोति
अन्तो नूं भवितायं करूणां सुदारुणः सर्वहरो विनाशः। वाचः काव्याः सुहृदां पथ्यरूपा न श्रूयन्ते वर्धते लोभ एव
धिगस्तु क्षत्तारमिति ब्रुवाणो दर्पेण मत्तो धृतराष्ट्रस्य पुत्रः। अवैक्षत प्रातिकामीं सभाया- मुवाच चैनं परमार्यमध्ये
त्वं प्रातिकामिन्द्रौपदीमानयस्व न ते भयं विद्यते पाण्डवेभ्यः। क्षत्ता ह्ययं विवदत्येव भीतो न चास्माकं वृद्धिकामः सदैव
एवमुक्तः प्रातिकामी स सूतः प्रायाच्छीघ्रं राजवचो निशम्य। प्रविश्य च श्वेव हि सिंहगेष्ठं समासदन्महिषीं पाण्डवानाम्
युधिष्ठिरो द्यूतमदेन मत्तो दुर्योधनो द्रौपदि त्वामजैषीत्। सा त्वं प्रपद्यस्व धृतराष्ट्रस्य वेश्म नयामि त्वां कर्मणि याज्ञसेनि
कथं त्वेवं वदसि प्रातिकामि- को हि दीव्येद्भार्यया राजपुत्रः। मूडो राजा द्यूतमदेन मत्तो ह्यभून्नान्यत्कैतवमस्य किञ्चित्
यदा नाभूत्कैतवमन्यदस्य तदाऽदेवीत्पाण्डवोऽजातशत्रुः। न्यस्ताः पूर्वं भ्रातरस्तेन राज्ञा स्वयं चात्मा त्वमथो राजपुत्रि
गच्छ त्वं कितवं गत्वा सभायां पृच्छ सूतज। किं तु पूर्वं पराजैषीरात्मानमथवा नु माम्
एतज्ज्ञात्वा समागच्छ ततो मां नयं सूतज। ज्ञात्वा चिकीर्षितमहं राज्ञो यास्यामि दुःखिता
सभां गत्वा स चोवाच द्रौपद्यस्तद्वचस्तदा। युधिष्ठिरं नरेनद्राणां मध्ये स्थितमिदं वचः
कस्येशो नः पराजैषीरिति त्वामाह द्रौपदी। किं नु पूर्वं पराजैषीरात्मानमथवापि माम्
युधिष्ठिरस्तु निश्चेता गतसत्व इवाभवत्। न तं सूतं प्रत्युवाच वचनं साध्वसाधु वा
इहैवागत्य पाञ्चाली प्रश्नमेनं प्रभाषताम्। इहैव सर्वे शृण्वन्तु तस्याश्चैतस्य यद्वचः
स गत्वा राजभवनं दुर्योधनवशानुगः। उवाच द्रौपदीं सूतः प्रातिकामी व्यथन्निव