श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः। नकुलो ग्लह एवैकी विद्ध्येतन्मम तद्धनम्
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर। अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे
एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
अयं धर्मान्सहदेवोऽनुशास्ति लोके ह्यस्मिन्पण्डिताख्यां गतश्च। अनर्हता राजपुत्रेण तेन दीव्याम्यहं चाप्रियवत्प्रियेण
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया। गरीयांसौ तु मन्ये भीमसेनधनञ्जयौ
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्। यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि
गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति। ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ
स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर। कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव
यो नः सङ्ख्ये नौरिव पारनेता जेता रिपूणां राजपुत्रस्तरस्वी। अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने फाल्गुनेन
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
अयं मया पाण्डवानां धनिर्धरः पराजितः पाण्डवः सव्यसाची। भीमेन राजन्दयितेन दीव्य यत्कैतवं पाण्डव तेऽवशिष्टम्
यो नो नेता यो युधि नः प्रणेता यथा वज्री दानवशत्रुरेकः। तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदाऽत्यमर्षी
बलेन तुल्यो यस्यप पुमान्न विद्यते गदाभृतामग्र्य इहारिमर्दनः। अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन राजन्
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्। आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा। कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः। शिष्टे सति धने राजन्पाप आत्मपराजयः
एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान्। पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक् पृथक्
अस्ति ते वै प्रिया राजन् ग्लह एकोऽपराजितः। पणस्व कृष्णां पाञ्चालीं तयात्मानं पुनर्जय
नैव ह्रस्वा न महती न कृशा नातिरोहिणी। नीलकुञ्चितकशी च तया दीव्याम्यहं त्वया
शारदोत्पलपत्राक्ष्या शारदोत्पलगन्धया। शारदोत्पलसेविन्या रूपेण श्रीसमानया
तथैव स्यादानुशंस्यात्तथ स्याद्रूपसम्पदा। तथा स्याच्छीलसम्पत्त्या यामिच्छेत्पुरुषः स्त्रियम्
सर्वैर्गुणैर्हि सम्पन्नामनुकूलां प्रियंवदाम्। यादृशीं धर्मकामार्थसिद्धिमिच्छेन्नरः स्त्रियम्
चरमं संविशति या प्रथमं प्रतिबुध्यते। आगोपालाविपालेभ्यः सर्वं वेद कृताकृतम्
आभाति पद्मवद्वक्त्रं सस्वेदं मल्लिकेव च। वेदीमध्या दीर्घकेशी ताम्रास्या नातिलोमशा
तयैवंविधया राजन्पाञ्चाल्याहं सुमध्यमा। ग्लहं दीव्यामि चार्वङ्ग्या द्रौपद्या हन्त सौबल
एवमुक्ते तु वचने धर्मराजेन धीमता। धिग्धिगित्येव वृद्धानां सभ्यानां निः सृता गिरः
चुक्षुभे सा सभा राजन्राज्ञां सञ्जत्रिरे शुचः। भीष्मद्रोणकृपादीनां स्वेदश्च समजायत