चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ। अमृतस्यैव रक्षार्थं ददर्श भुजगोत्तमौ
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ। तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्
तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः। कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ
इति संचिन्त्य गरुडस्तयोस्तूर्णं निराकरः।' तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत्। ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः। आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली। उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः। आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः
विष्णुना च तदाकाशे वैनतेयः समेयिवान्। तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्। स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः
उवाच चैनं भूयोऽपि नारायणमिदं वचः। अजरश्चामरश्च स्याममृतेन विनाऽप्यहम्
एवमस्त्विति तं विष्णुरुवाच विनतासुतम्। प्रतिगृह्य वनौ तौ च गरुडो विष्णुमब्रवीत्
भवतेपि वरं दद्यां वृणोतु भगवानपि। तं वव्रे वाहनं विष्णुर्नरुत्मन्तं महाबलम्
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्। एवमस्त्विति तं देवमुक्त्वा नारायणं खगः
वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः। तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्
हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्। तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः। ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम्
वज्रस्य च करिष्यामि तवैव च शतक्रतो। एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे
न च वज्रनिपातेन रुजा मेऽस्तीह काचन। एवमुक्त्वा ततः पुत्रमुत्ससर्ज स पक्षिराट्
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति। तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरंदरः। खगो महदिदं भूतमिति मत्वाऽभ्यभाषत
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्। सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम
सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर। बलं तु मम जानीहि महच्चासह्यमेव च
कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम्। `अनिमित्तं सुरश्रेष्ठ सद्यः प्राप्नोति गर्हणाम्
गुणसंकीर्तनं चापि पृष्टेनान्येन गोपते। वक्तव्यं न तु वक्तव्यं स्वयमेव शतक्रतो
सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया। न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः
सपर्वतवनामुर्वीं ससागरजलामिमाम्। वहे पक्षेण वै शक्र त्वामप्यत्रावलम्बिनम्
सर्वान्संपिण्डितान्वापि लोकान्सस्थाणुजङ्गमान्। वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम्
इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः। आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः
एवमेव यथात्थ त्वं सर्वं संभाव्यते त्वयि। संगृह्यतामिदानीं मे सख्यमत्यन्तमुत्तमम्
न कार्यं यदि सोमेन मम सोमः प्रदीयताम्। अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम्
किंचित्कारणमुद्दिश्य सोमोऽयं नीयते मया। न दास्यामि समापातुं सोमं कस्मैचिदप्यहम्