मम वित्तमसङ्ख्येयं यदहं वेद सौबल। अथ त्वं शकुने कस्माद्वित्तं समनुपृच्छसि
अयुतं प्रयुतं चैव शङ्कुं पद्मं तथार्बुदम्। खर्वं शङ्खं निखर्वं च महापद्मं च कोटयः
मध्यं चैव परार्धं च सपरं चात्र पण्यताम्। एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
गवाश्वं बहुधेनूकमसङ्ख्येयमजाविकम्। यत्किञ्चिदनु पर्णाशां प्राक् सिन्धोरपि सौबल। एतन्मम धनं सर्वं तेन दीव्याम्यहं त्वया
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
पुरं जनपदो भूमिरब्राह्मणधनैः सह। अब्राह्मणाश्च पुरुषा राजञ्शिष्टं धनं मम। एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
राजपुत्रा इमे राजञ्छोमन्ते यैर्विभूषिताः। कुम्डलानि च निष्काश्च सर्वं राजविभूषणम्। एतन्मम धनं राजंस्तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
श्यामो युवा लोहिताक्षः सिंहस्कन्धो महाभुजः। नकुलो ग्लह एवैकी विद्ध्येतन्मम तद्धनम्
प्रियस्ते नकुलो राजन्राजपुत्रो युधिष्ठिर। अस्माकं वशतां प्राप्तो भूयः केनेह दीव्यसे
एवमुक्त्वा तु तानक्षाञ्शकुनिः प्रत्यदीव्यत। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
अयं धर्मान्सहदेवोऽनुशास्ति लोके ह्यस्मिन्पण्डिताख्यां गतश्च। अनर्हता राजपुत्रेण तेन दीव्याम्यहं चाप्रियवत्प्रियेण
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
माद्रीपुत्रौ प्रियौ राजंस्तवेमौ विजितौ मया। गरीयांसौ तु मन्ये भीमसेनधनञ्जयौ
अधर्मं चरसे नूनं यो नावेक्षसि वै नयम्। यो नः सुमनसां मूढ विभेदं कर्तुमिच्छसि
गर्ते मत्तः प्रपतते प्रमत्तः स्थाणुमृच्छति। ज्येष्ठो राजन्व्ररिष्ठोऽसि नमस्ते भरतर्षभ
स्वप्ने तानि न दृश्यन्ते जाग्रतो वा युधिष्ठिर। कितवा यानि दीव्यन्तः प्रलपन्त्युत्कटा इव
यो नः सङ्ख्ये नौरिव पारनेता जेता रिपूणां राजपुत्रस्तरस्वी। अनर्हता लोकवीरेण तेन दीव्याम्यहं शकुने फाल्गुनेन
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
अयं मया पाण्डवानां धनिर्धरः पराजितः पाण्डवः सव्यसाची। भीमेन राजन्दयितेन दीव्य यत्कैतवं पाण्डव तेऽवशिष्टम्
यो नो नेता यो युधि नः प्रणेता यथा वज्री दानवशत्रुरेकः। तिर्यक्प्रेक्षी सन्नतभ्रूर्महात्मा सिंहस्कन्धो यश्च सदाऽत्यमर्षी
बलेन तुल्यो यस्यप पुमान्न विद्यते गदाभृतामग्र्य इहारिमर्दनः। अनर्हता राजपुत्रेण तेन दीव्याम्यहं भीमसेनेन राजन्
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
बहुवित्तं पराजैषीर्भ्रातॄंश्च सहयद्विपान्। आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्
अहं विशिष्टः सर्वेषां भ्रातॄणां दयितस्तथा। कुर्यामहं जितः कर्म स्वयमात्मन्युपल्पुते
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
एतत्पापिष्ठमकरोर्यदात्मानं पराजयेः। शिष्टे सति धने राजन्पाप आत्मपराजयः
एवमुक्त्वा मताक्षस्तान् ग्लहे सर्वानवस्थितान्। पराजयल्लोकवीरानुक्त्वा राज्ञां पृथक् पृथक्