प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः। दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः
दुर्योधनो मदेनैव क्षेमं व्यपोहति। विषाणं गौरिव मदात्स्वयमारुजतेत्मनः
यश्चित्तमन्वेति परस्य राजन् वीरः कविः स्वामवमत्य दृष्टिम्। नावं समुद्र इव बालनेत्रा- मारुह्य घोरे व्यसने निमज्जेत्
दुर्योधनो ग्लहते पाण्डवेन प्रीयायसे त्वं जयतीति तच्च। अतिनर्मा जायते संप्रहारो यतो विनाशः समुपैति पुंसाम्
आकर्षस्तेऽवाक्फलः सुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः। युधिष्ठिरेण कलहस्तवाय- मचिन्तितोऽभिमतः स्वबन्धुना
प्रातिपेयाः शान्तनवाः शृणुध्वं काव्यां वाचं संसदि कौरवाणाम्। वैश्वानरं प्रज्वलितं सुघोरं मा यास्यध्वं मन्दमनुप्रपन्नः
यदा मन्युं पाण्डवोऽजातशत्रु- र्न संयच्छेदक्षमदाभिभूतः। वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्
महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः। बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं किं ते तत्स्याद्वसु विन्देह पार्थान्
जानीमहे देवितं सौबलस्य वेद द्यूते निकृतिं पार्वतीयः। यतः प्राप्तः शकुनिस्तत्र यातु मा यूयुधो भारत पाण्डवेयान्
परेषामेव यशसा श्लोघसे त्वं सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान्। जानीमहे विदुर यत्प्रियस्त्वं बालानिवास्मानवमन्यसे नित्यमेव
स विज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति। जिह्वाऽऽत्मनो हृदयस्थं व्यनक्ति जानीमहे त्वन्मनसः प्रातिकूल्यम्
उत्सङ्गे च व्याल इवाहितोऽसि मार्जरवत्पोषकं चोपहंसि। भर्तृघ्नं त्वां न हि पापीय आहु- स्तस्मात्क्षत्तः किं न बिभेषि पापात्
जित्वा शत्रून्फलमाप्तं महद्वै माऽस्मान्क्षत्तः परुषामीह वोचः। द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी मुहुर्देषं यासि नः सम्प्रयोगात्
अमित्रतां याति नरोऽक्षमं ब्रुव- न्निगूहते गुह्यममित्रसंस्तवे। तदाश्रितोऽपत्रप किं नु बाधसे यदिच्छसि त्वं तदिहाभिभाषतसे
मा नोऽवमंस्था विद्य मानस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात्। यशो रक्षस्व विदुर सम्प्रणीतं मा व्यापृतः परकार्येशु भूस्त्वम्
अहं कर्तेति विदूर मा च मंस्था मा नो नित्यं परुषाणीह वोचः। न त्वां पृच्छामि विदुर यद्धितं मे स्वस्ति क्षत्तर्मा तितिक्षून् क्षिण् त्वम्
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता। तेनानुशिष्टः प्रवणादिवाम्भो यथा नियुक्तोऽस्ति तथा भवामि
भिनत्ति शिरसा शैलमहिं भोजयते च यः। धीरेव कुरुते तस्य कार्याणामनुशासनम्। यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति
मित्रतामनुवृत्तं तु समुपेक्षत्यपण्डितः। दीप्य यः प्रदीप्ताग्निं प्राच्किरं नाभिधावति। भस्मापि न स विन्देत शिष्टं क्वचन भारत
न वासयेत्पारवर्ग्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुप्यम्। स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्विता ह्यसती स्त्री जहाति
एतावता पुरुषं ये त्यजन्ति तेषां सख्यमन्तवद्ब्रूहि राजन्। राज्ञां हि चित्तानि परिप्लुतानि सान्त्वं दत्वा मुसलैर्घातयन्ति
अबालत्वं मन्यसे राजपुत्र बालोऽहमित्येव सुमन्दबुद्धे। यः सौहृदे पुरुषं स्थापयित्वा पश्चादेनं दूषयते स बालः
न श्रेयसे नीयते मन्दबुद्धिः स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा। ध्रुवं न रोचेद्भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः
अतः प्रियं चेदनुकाङ्क्षसे त्वं सर्वेषु कार्येषु हिताहितेषु स्त्रियश्च राजञ्जडपङ्गुकांश्च पृच्छ त्वं वै तादृशांश्चैव सर्वान्
लभ्यते खलु पापीयान्नरोऽनु प्रियवागिह। अप्रियस्य हि पथ्यस्य वक्ता श्रोता च दुर्लभः
यस्तु धर्मपरश्च स्याद्धित्वा भर्तुः प्रियाप्रिये। अप्रियाण्याह पथ्यानि तेन राजा सहायवान्
अव्याधइजं कटुजं तीक्ष्णमुष्णं यशोमुषं परुषं पूतिगन्धिम्। सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य
वैचित्रवीर्यस्य यशो धनं च वाञ्छाम्यहं सहपुत्रस्य शश्वत्। यथा तथा तेऽस्तु नमश्चतेऽस्तु ममापि च स्वस्ति दिशन्तु विप्राः
आशीविषान्नेत्रविषान्कोपयेन्न च पण्डितः। एवं तेऽहं वदामीदं प्रयतः कुरुनन्दन
बहुवित्तं पराजैषीः पाण्डवानां युधिष्ठिर। आचक्ष्व वित्तं कौन्तेय यदि तेऽस्त्यपराजितम्