एवं ते ज्ञातयः सर्वे मोदमानाः शतं समाः। त्वन्नियुक्तः सव्यसाची निगृह्णातु सुयोधनम्
निग्रहादस्य पादस्य मोदन्तां कुरवः सुखम्। काकेनेमांश्चित्रवर्हाञ्शार्दूलान्क्रोष्टुकेन च। क्रीणीष्व पाण्डवान्राजन्मा मज्जीः शोकसागरे
त्यजेत्कुलार्थे पुरुषं ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्
सर्वज्ञः सर्वभावज्ञः सर्वशत्रुभयङ्करः। इति स्म भाषते काव्यो जम्भत्यागे महाऽसुरान्
हिरण्यष्ठीविनः कांश्चित्पक्षिणो वनगोचरान्। गृहे किल कृतावासाँल्लोभाद्राजा न्यपीडयत्। स चोपभोगलोभान्धो हिरण्यार्थी परन्तप
आयतिं च तदात्वं च उभे सद्यो व्यनाशयत्। तदर्थकामस्तद्वत्त्वं माद्रुहः पाण्डवान्नृप
मोहात्मा तप्स्यसे पश्चात्पत्रिहा पुरुषो यथा। जातञ्जातं पाण्डवेभ्यः पुष्पमादत्स्व भारत
मालाकार इवारामे स्नेहं कुर्वन्पुनः पुनः। वृक्षानङ्गारकारीव मैनाद्याक्षीः समूलकान्। मा गमः समुतामात्यः सबलश्च यमक्षयम्
समवेतान्हि कः पार्थान्प्रतियुध्येत भारत। मरुद्भिः सहितो राजन्नपि साक्षान्मरुत्पतिः
द्यूतं मूलं कलहस्याभ्युपैति मिथो भेदं महते दारुणाय। तदा स्थितोऽयं धृतराष्ट्रस्य पुत्रो दुर्योधनः सृजते वैरमुग्रम्
प्रातिपेयाः शान्तनवा भीमसेनाः सबाह्निकाः। दुर्योधनापराधेन कृच्छ्रं प्राप्स्यन्ति सर्वशः
दुर्योधनो मदेनैव क्षेमं व्यपोहति। विषाणं गौरिव मदात्स्वयमारुजतेत्मनः
यश्चित्तमन्वेति परस्य राजन् वीरः कविः स्वामवमत्य दृष्टिम्। नावं समुद्र इव बालनेत्रा- मारुह्य घोरे व्यसने निमज्जेत्
दुर्योधनो ग्लहते पाण्डवेन प्रीयायसे त्वं जयतीति तच्च। अतिनर्मा जायते संप्रहारो यतो विनाशः समुपैति पुंसाम्
आकर्षस्तेऽवाक्फलः सुप्रणीतो हृदि प्रौढो मन्त्रपदः समाधिः। युधिष्ठिरेण कलहस्तवाय- मचिन्तितोऽभिमतः स्वबन्धुना
प्रातिपेयाः शान्तनवाः शृणुध्वं काव्यां वाचं संसदि कौरवाणाम्। वैश्वानरं प्रज्वलितं सुघोरं मा यास्यध्वं मन्दमनुप्रपन्नः
यदा मन्युं पाण्डवोऽजातशत्रु- र्न संयच्छेदक्षमदाभिभूतः। वृकोदरः सव्यसाची यमौ च कोऽत्र द्वीपः स्यात्तुमुले वस्तदानीम्
महाराज प्रभवस्त्वं धनानां पुरा द्यूतान्मनसा यावदिच्छेः। बहुवित्तान्पाण्डवांश्चेज्जयस्त्वं किं ते तत्स्याद्वसु विन्देह पार्थान्
जानीमहे देवितं सौबलस्य वेद द्यूते निकृतिं पार्वतीयः। यतः प्राप्तः शकुनिस्तत्र यातु मा यूयुधो भारत पाण्डवेयान्
परेषामेव यशसा श्लोघसे त्वं सदा क्षत्तः कुत्सयन्धार्तराष्ट्रान्। जानीमहे विदुर यत्प्रियस्त्वं बालानिवास्मानवमन्यसे नित्यमेव
स विज्ञेयः पुरुषोऽन्यत्रकामो निन्दाप्रशंसे हि तथा युनक्ति। जिह्वाऽऽत्मनो हृदयस्थं व्यनक्ति जानीमहे त्वन्मनसः प्रातिकूल्यम्
उत्सङ्गे च व्याल इवाहितोऽसि मार्जरवत्पोषकं चोपहंसि। भर्तृघ्नं त्वां न हि पापीय आहु- स्तस्मात्क्षत्तः किं न बिभेषि पापात्
जित्वा शत्रून्फलमाप्तं महद्वै माऽस्मान्क्षत्तः परुषामीह वोचः। द्विषद्भिस्त्वं सम्प्रयोगाभिनन्दी मुहुर्देषं यासि नः सम्प्रयोगात्
अमित्रतां याति नरोऽक्षमं ब्रुव- न्निगूहते गुह्यममित्रसंस्तवे। तदाश्रितोऽपत्रप किं नु बाधसे यदिच्छसि त्वं तदिहाभिभाषतसे
मा नोऽवमंस्था विद्य मानस्तवेदं शिक्षस्व बुद्धिं स्थविराणां सकाशात्। यशो रक्षस्व विदुर सम्प्रणीतं मा व्यापृतः परकार्येशु भूस्त्वम्
अहं कर्तेति विदूर मा च मंस्था मा नो नित्यं परुषाणीह वोचः। न त्वां पृच्छामि विदुर यद्धितं मे स्वस्ति क्षत्तर्मा तितिक्षून् क्षिण् त्वम्
एकः शास्ता न द्वितीयोऽस्ति शास्ता गर्भे शयानं पुरुषं शास्ति शास्ता। तेनानुशिष्टः प्रवणादिवाम्भो यथा नियुक्तोऽस्ति तथा भवामि
भिनत्ति शिरसा शैलमहिं भोजयते च यः। धीरेव कुरुते तस्य कार्याणामनुशासनम्। यो बलादनुशास्तीह सोऽमित्रं तेन विन्दति
मित्रतामनुवृत्तं तु समुपेक्षत्यपण्डितः। दीप्य यः प्रदीप्ताग्निं प्राच्किरं नाभिधावति। भस्मापि न स विन्देत शिष्टं क्वचन भारत
न वासयेत्पारवर्ग्यं द्विषन्तं विशेषतः क्षत्तरहितं मनुप्यम्। स यत्रेच्छसि विदुर तत्र गच्छ सुसान्त्विता ह्यसती स्त्री जहाति