अनुसेवां चरन्तीमाः कुशला नृत्तसामसु। स्नातकानाममात्यानां राज्ञां च मम शासनात्। एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया
एतच्छुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
एतावन्ति च दासानां सहस्राण्युत सन्ति मे। प्रदक्षिणानुलोमाश्च प्रावारवसनाः सदा
प्राज्ञा मेधाविनो दान्ता युवानो मृष्टकुण्डलाः। पात्रीहस्ता दिवारात्रमतिथीन्भोजयन्त्युत। एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरभाषत
सहस्रसङ्ख्या नगा मे मत्तास्तिष्ठन्ति सौबल। हेमकक्षाः कृतापीडाः पद्मिनो हेममालिनः
सुदान्ता राजवहनाः सर्वशब्दक्षमा युधि। ईषादन्ता महाकायाः सर्वे चाष्टकरेणवः
सर्वे च पुरभेत्तारो नवमेघनिभा गजाः। एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया
इत्येवंवादिनं पार्थं प्रहसन्निव सौबलः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
रथास्तावन्त एवेमे हेमदण्डाः पताकिनः। हयैर्विनीतैः सम्पन्ना रथिभिश्चित्रयोधिभिः
एकैको ह्यत्र लभते सहस्रपरमां भृतिम्। युध्यतोऽयुध्यतो वापि वेतनं मासकालिकम्। एतद्राजन्म धनं तेन दीव्याम्यहं त्वया
इत्येवमुक्ते वचने कृतवैरो दुरात्मवान्। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
अश्वांस्तित्तिरिकल्माषान्गान्धर्वान्हेममालिनः। ददौ चित्ररथस्तुष्टो यांस्तान्गाण्डीवधन्वने
युद्धे जितः पराभूतः प्रीतिपूर्वमरिन्दमः। एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। तमित्येव शकुनिर्युधिष्ठिरमभाषत
रथानां शकटानां च श्रेष्ठानां चायुतानि मे। युक्तान्येव हि तिष्ठन्ति वाहैरुच्चावचैस्तथा
एवं वर्णस्य वर्णस्य समुच्चीय सहस्रशः। यथा समुदिता वीराः सर्वे वीरपराक्रमाः
क्षीरं पिबन्तस्तिष्ठन्ति भुञ्जानाः शालितण्डुलान्। षष्टिस्तानि सहस्राणि सर्वे विपुलवक्षसः। एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया
एतच्छ्रत्वा व्यवसितो निकृति समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
ताम्रलोहैः परिवृता निधयो ये चतुः शताः। पञ्चद्रौणिक एकैकः सुवर्णस्याहतस्य वै
जातरूपस्य मुख्यस्य नार्घो यस्य हि भारत। एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया
एतच्छ्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभापतः
एवं प्रवर्तिते द्यूते घोरे सर्वापहारिणि। सर्वसंशयनिर्मोक्ता विदुरो वाक्यमब्रवीत्
महाराज विजानीहि यत्त्वां वक्ष्यामि भारत। मुमूर्षोरौषधमिव न रोचेतापि ते श्रुतम्
यद्वै पुरा जातमात्रो रुराव गोमायुवद्विस्वरं पापचेताः। दुर्योधनो भारतानां कुलघ्नः सोऽयं युक्तो भवतां कालहेतुः
गृहे वसन्तं गोमायुं त्वं वै मोहान्न बुध्यसे। दुर्योधनस्य रूपेण शृणु काव्यां गिरं मम
मधु वै माध्विको लब्ध्वा प्रपातं नैव बुध्यते। आरुह्य तं मज्जति वा पतनं चाधिगच्छति
सोऽयं मत्तोऽक्षद्यूतेन मधुवन्न पीरक्षते। प्रपातं बुध्यते नैव वैरं कृत्वा महारथैः
विदितं मे महाप्राज्ञ भोजेष्वेवासमञ्जसम्। पुत्रं संत्यक्तवान्पूर्वं पौराणां हितकाम्यया
अन्धका यादवा भोजाः समेताः कंसमत्यजन्। नियोगात्तु हते तस्मिन्कृष्णेनामित्रघातिना