इदं वै देवनं पापं निकृत्या कितवैः सह। धर्मेण तु जयो युद्धे तत्परं न तु देवनम्
नार्या म्लेच्छन्ति भाषाभिर्मायया न चरन्त्युत। अजिह्यमशठं युद्धमेतत्सत्पुरुषव्रतम्
शक्तितो ब्राह्मणार्थाय शिक्षितुं प्रयतामहे। तद्वै वित्तं मातिदेवीर्माजैषीः शकुने परान्
निकृत्या कामये नाहं सुखान्युत धनानि वा। कितवस्येह कृतिनो वृत्तमेतन्न पूज्यते
श्रोत्रियः श्रोत्रियानेति निकृत्यैव युधिष्ठिर। विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः
अक्षैर्हि शिक्षितोऽभ्येति निकृत्यैव युधिष्ठिर। विद्वानविदुषोऽभ्येति नाहुस्तां निकृतिं जनाः
अकृतास्त्रं कृतास्रश्च दुर्बलं बलवत्तरः। एवं कर्मसु सर्वेषु निकृत्यैव युधिष्ठिरः। विद्वानविदुषोभ्येति नाहुस्तां निकृतिं जनाः
एवं त्वं मामिहाभ्येत्य निकृतिं यदि मन्यसे। देवनाद्विनिवर्तस्व यदि ते विद्यते भयम्
आहूतो न निवर्तेयमिति मे व्रतमाहितम्। विधिश्च बलवान्राजन्दिष्टस्यास्मि वशे स्थितः
अस्मिन्समागमे केन देवनं मे भविष्यति। प्रतिपाणश्च कोऽन्योस्ति ततो द्यूतं प्रवर्तताम्
अहं दातास्मि रत्नानां धनानां च विशाम्पते। मदर्थे देविता चायं शकुनिर्मातुलो मम
अन्येनान्यस्य वै द्यूतं विषमं प्रतिभाति मे। एतद्विद्विन्नुपादत्स्व काममेवं प्रवर्ततम्
उपोह्यमाने द्यूते तु राजानः सर्व एव ते। धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां ततः
भीष्मो द्रोणः कृपश्चैव विदुरश्च महामतिः। नातिप्रीतेन मनसा तेऽन्ववर्तन्त भारत
ते द्वन्द्वशः पृथच्कैव सिंहग्रीवा महौजसः। सिंहासनानि भूरिणी विचित्राणि च भेजिरे
शुशुभे सा सभा राजन्राजभिस्तैः समागतैः। देवैरिव महाभागैः समवेतैस्त्रिविष्टपम्
सर्वे वेदविदः शूराः सर्वे भास्वरमूर्तयः। प्रवर्तत महाराज सुहृद्द्यूतमनन्तरम्
अयं बुहधनो राजन्सागरावर्तसम्भवः। मणिर्हारोत्तरः श्रीमान्कनकोत्तमभूषणः
एतद्राजन्मम धनं प्रतिपाणोऽस्ति कस्तव। येन मां त्वं महाराज धनेन प्रतिदीव्यसे
सन्ति मे मणयश्चैव धनानि सुबहूनि च। मत्सरश्च न मेऽर्थेषु जयस्वैनं दुरोदरम्
ततो जग्राह शकुनिस्तानक्षानक्षतत्त्ववित्। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
मत्त कैतकेनैव यज्जितोऽस्मि दुरोदरे। शकुने हन्त दीव्यामो ग्लहमानाः परस्परम्
सन्ति निष्कसहस्रस्य भाण्डिन्यो भरिताः शुभाः। कोशो हिरण्यमक्षय्यं जातरूपमनेकशः। एतद्राजन्मम धनं तेन दीव्याम्यहं त्वया
कौरवाणां कुलकरं ज्येष्ठं पाण्डवमच्युतम्। इत्युक्तः शकुनिः प्राह जितमित्येव तं नृपम्
अयं सहस्रसमितो वैयाघ्रः सुप्रतिष्ठितः। सुचक्रोपस्करः श्रीमान्किङ्किणीजालमण्डितः
संह्रादनो राजरथो य इहास्मानुपावहत्। जौत्रो रथवरः पुण्यो मेघसागरनिः स्वनः
अष्टौ यं कुररच्छायाः सदश्वा राष्ट्रसंमताः। वहन्ति नैषां मुच्येत पदाद्भूमिमुपस्पृशन्। एतद्राजन्धनं मह्यं तेन दीव्याम्यहं त्वया
एवं श्रुत्वा व्यवसितो निकृतिं समुपाश्रितः। जितमित्येव शकुनिर्युधिष्ठिरमभाषत
शतं दासीसहस्राणि तरुण्यो हेमभद्रिकाः। कम्बुकेयूरधारिण्यो निष्ककण्ठ्यः स्वलङ्कृताः
महार्हमाल्याभरणाः सुवस्त्राश्चन्दनोक्षिताः। मणीन्हेम च बिभ्रत्यश्चतुःषष्टिविशारदाः