शिवे देशे समे चैव न्यवसत्पाण्डवस्तदा। ततोराजन्समाहूय शोकविह्वलया गिरा
तद्वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम्। आचचक्षे यथावृत्तं विदुरोऽथ नृपस्य ह
तच्छ्रुत्वा भाषितं तेन धर्मराजोऽब्रवीदिदम्। न मर्षयाम्यहं क्षत्तः समाह्वानं व्रतं हि मे। स्वस्त्यस्तु लोके विप्राणां प्रजानां चैव सर्वदा
प्रविवेश ततो राजा नगरं नागसाह्वयम्। धृतराष्ट्रेण चाहूतः कालस्य समयेन च
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ। समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः
तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च। समियाय यथान्यायं द्रौणिना च विभुः सह
समेत्य च महाबाहुः सोमदत्तेन चैव ह। दूर्योधनेन सभ्रात्रा सौबलेन च वीर्यवान्
ये चान्ये तत्र राजानः पूर्वमेव समागताः। दुःशासनेन वीरेण सर्वैर्भ्रातृभिरेव च
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः। ततः सर्वैर्महाबाहुर्भ्रातृभिः पिरवारितः
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः। ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम्। अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः। चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः
ततो हर्षः समभवत्कौरवाणां विशाम्पते। तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान्
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च। ददृशुश्चोपयातारो द्रोपदीप्रमुखाः स्त्रियः
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव। स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्
ततस्ते पुरुषव्याघ्रा ग्तवा स्त्रीभिस्तु संविदम्। कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च
ततः कृताह्निकाः सर्वे दिव्यचन्दनभूषिताः। कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ। उपगीयमाना नारीभिरस्वपन्कुरुपुङ्गवाः
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्। स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्
मुखोषितास्ते रजनीं प्रातः सर्वे कृताह्निकाः। सभां रम्यां प्रविविशुः कितवैरभिनन्दिताः
प्रविश्य तां सभां पार्था युधिष्ठिरपुरोगमाः। समेत्य पार्थिवान्सर्वान्पूजार्हानभिपूज्य च
यथावयः समेयाना उपविष्टा यथार्हतः। आसनेषु विचित्रेषु स्पर्द्ध्यास्तरणवत्सु च
तेषु तत्रोपविष्टेषु सर्वेष्वथ नृपेषु च। शकुनिः सौबलस्तत्र युधिष्ठिरमभाषत
उपस्तीर्णा सभा राजन्सर्वे त्वयि कृतक्षणाः। अक्षानुप्त्वा देवनस्य समयोऽस्तु युधिष्ठिर
नितिर्देवनं पापं न क्षात्रोऽत्र पराक्रमः। न च नीतिर्ध्रुवा राजन्किं त्वं द्यूतं प्रशंससि
हि मानं प्रशंसन्ति निकृतौ कितवस्य हि। शकुने मैवं नोऽजैषीरमार्गेण नृशंसवत्
यो वेत्ति सङ्ख्या निकृतौ विधिज्ञ- श्चेष्टास्वखिन्नः कितवोऽक्षजासु। महामतिर्यश्च जानाति द्यूतं स वै सर्वं सहते प्रक्रियासु
अक्षग्लहः सोऽभिभवेत्परं न- स्तेनैव दोषो भवतीह पार्थ। दीव्यामहे पार्थिव मा विशङ्कां कुरुष्व पाणं च चिरं च मा कृथाः
एवमाहायमसितो देवलो मुनिसत्तमः। इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा