अधिरूढौ यमौ चापि जग्मतुर्भरतर्षभ। शोभयन्तौ महासैन्यं तावुभौ रूपशालिनौ
पृष्ठतोऽनुययौ जिष्णुर्वीरः शस्त्रभृतां वरः। श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः
सैन्यमध्ये ययौ राजन्कुरुराजो युधिष्ठिरः। द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः
आरुह्य ता विचित्राङ्ग्यो यानानि विविधानि च। महत्या सेनया राजन्नग्रे यानानि विविधानि च
समृद्धनरनागाश्वं सपताकरथध्वजम्। संनद्धवरनिस्त्रिंशं पथि निर्घोषनिः स्वनम्
शङ्खदुन्दुभितालानां वेणुवीणानुवनादितम्। शुशुभे पाण्डवं सैन्यं प्रयास्यत्तत्तदा नृप
यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया। महत्या सेनया सार्धं गुरुमिन्द्रं स गच्छति
तथा ययौ स पार्थोऽपि असङ्ख्येयविभूतिना। सुसमृद्धेन सैन्येन यथा वैश्रवणस्तथा
स सरांसि नदीश्चैव वनान्युपवनानि च। अत्यक्रामन्महाराज पुरीं चाभ्यवपद्यत
स हास्तिनसमीपे तु कुरुराजो युधिष्ठिरः। चक्रे निवेशनं तत्र ततः स सहसैनिकाः
शिवे देशे समे चैव न्यवसत्पाण्डवस्तदा। ततोराजन्समाहूय शोकविह्वलया गिरा
तद्वाक्यं च सर्वस्वं धृतराष्ट्रचिकीर्षितम्। आचचक्षे यथावृत्तं विदुरोऽथ नृपस्य ह
तच्छ्रुत्वा भाषितं तेन धर्मराजोऽब्रवीदिदम्। न मर्षयाम्यहं क्षत्तः समाह्वानं व्रतं हि मे। स्वस्त्यस्तु लोके विप्राणां प्रजानां चैव सर्वदा
प्रविवेश ततो राजा नगरं नागसाह्वयम्। धृतराष्ट्रेण चाहूतः कालस्य समयेन च
स हास्तिनपुरं गत्वा धृतराष्ट्रगृहं ययौ। समियाय च धर्मात्मा धृतराष्ट्रेण पाण्डवः
तथा भीष्मेण द्रोणेन कर्णेन च कृपेण च। समियाय यथान्यायं द्रौणिना च विभुः सह
समेत्य च महाबाहुः सोमदत्तेन चैव ह। दूर्योधनेन सभ्रात्रा सौबलेन च वीर्यवान्
ये चान्ये तत्र राजानः पूर्वमेव समागताः। दुःशासनेन वीरेण सर्वैर्भ्रातृभिरेव च
जयद्रथेन च तथा कुरुभिश्चापि सर्वशः। ततः सर्वैर्महाबाहुर्भ्रातृभिः पिरवारितः
प्रविवेश गृहं राज्ञो धृतराष्ट्रस्य धीमतः। ददर्श तत्र गान्धारीं देवीं पतिमनुव्रताम्
स्नुषाभिः संवृतां शश्वत्ताराभिरिव रोहिणीम्। अभिवाद्य स गान्धारीं तया च प्रतिनन्दितः
ददर्श पितरं वृद्धं प्रज्ञाचक्षुषमीश्वरम्
राज्ञा मूर्धन्युपाघ्रातास्ते च कौरवनन्दनाः। चत्वारः पाण्डवा राजन्भीमसेनपुरोगमाः
ततो हर्षः समभवत्कौरवाणां विशाम्पते। तान्दृष्ट्वा पुरुषव्याघ्रान्पाण्डवान्प्रियदर्शनान्
विविशुस्तेऽभ्यनुज्ञाता रत्नवन्ति गृहाणि च। ददृशुश्चोपयातारो द्रोपदीप्रमुखाः स्त्रियः
याज्ञसेन्याः परामृद्धिं दृष्ट्वा प्रज्वलितामिव। स्नुषास्ता धृतराष्ट्रस्य नातिप्रमनसोऽभवन्
ततस्ते पुरुषव्याघ्रा ग्तवा स्त्रीभिस्तु संविदम्। कृत्वा व्यायामपूर्वाणि कृत्यानि प्रतिकर्म च
ततः कृताह्निकाः सर्वे दिव्यचन्दनभूषिताः। कल्याणमनसश्चैव ब्राह्मणान्स्वस्ति वाच्य च
मनोज्ञमशनं भुक्त्वा विविशुः शरणान्यथ। उपगीयमाना नारीभिरस्वपन्कुरुपुङ्गवाः
जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम्। स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन्