गन्धारराजः शकुनिर्विशाम्पते राजाऽतिदेवी कृतहस्तो मताक्षः। विनिंशतिश्चित्रसेनश्च राजा सत्यव्रतः पुरुमित्रो जयश्च
महाभयाः कितवाः सन्निविष्टा मायोपधा देवितारोऽत्र सन्ति। धात्रा तु दिष्टस्य वशे किलेदं सर्वं जगत्तिष्ठति न स्वतन्त्रम्
नाहं राज्ञो धृतराष्ट्रस्य शासना- न्न गन्तुमिच्छामि कवे दुरोदरम्। इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थ मां यथा
न चाकामः शकुनिना देविताहं न चेन्मां जिष्णुराह्वयिता सभायाम्। आहूतोऽहं न निवर्ते कदाचित् तदाहितं शाश्वतं वै व्रतं मे
एवमुक्त्वा विदुरं धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्य तूर्णम्। प्रायाच्छ्वोभूते सगणः सानुयात्रः सह स्त्रीभिर्दौपदामादि कृत्वा
दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत्। धातुश्च वशमन्वेति पाशैरिव नरः सितः
इत्युक्त्वा प्रययौ राजा सह क्षत्र्रा युधिष्ठिरः। अमृष्यमाणस्तस्याथ समाह्वानमरिन्दमः
बाह्लिकेन रथं यत्तमास्थाय परवीरहा। परिच्छन्नो ययौ पार्थो भ्रातृभिः सह पाण्डवः। राजश्रिया दीप्यमानो ययौ ब्रह्मपुरः सरः
सन्दिदेश ततः प्रेष्यानागतान्नगरं प्रति। ततस्ते नृपशार्दूल चक्रुर्वै नृपशासनम्
ततो राजा महातेजाः संयम्य सपरिच्छदम्। ह्मणैः स्वस्ति वाच्याथ प्रययौ मन्दिराद्बहिः
ब्राह्मणेभ्यो धनं दत्त्वा गत्यर्थं स यथाविधि। अन्येभ्यः स तु दत्त्वा च गन्तुमेवोपचक्रमे
सर्वलक्षणसम्पन्नं राजहंसपरिच्छदम्। तमारुह्य महाराजो गजेन्द्रं षष्टिहायनम्
हारी किरीटी हेमाभः सर्वाभरणभूषितः। रराज राजन्पार्थो वै परया नृपशोभया
रुक्मवेदिगतः प्राज्यो ज्वलन्निव हुताशनः। ततो जगाम राजा स प्रहृष्टनरवाहनः
रथघोषेण महता पूरयन्वै नभः स्थलम्। संस्तूयमानः स्तुतिभिः सूतमागधबन्दिभिः
महासैन्येन सहितो यथादित्यः स्वरश्मिभिः। ण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
बभौ युधिष्ठिरो राजा पौर्णमास्यामिवोडुराट्। चामरैर्हेमदण्डैश्च धूयमानः समन्ततः
याशिषः प्रहृष्टानां नराणां पथि पाण्डवः। प्रत्यगृह्णाद्यथान्यायं यथआवद्भरतर्षभः
तथैव सैनिका राजन्राजानमनुयान्ति ये। तेषां हलहलाशब्दो दिवं स्तब्धः प्रतिष्ठितः
नृपस्याग्ने ययौ राजन्भीमसेनो रथी बली। उभौ पार्श्वगतौ राज्ञः सतल्पौ वै सुकल्पितौ
अधिरूढौ यमौ चापि जग्मतुर्भरतर्षभ। शोभयन्तौ महासैन्यं तावुभौ रूपशालिनौ
पृष्ठतोऽनुययौ जिष्णुर्वीरः शस्त्रभृतां वरः। श्वेताश्वो गाण्डिवं गृह्य अग्निदत्तं रथं गतः
सैन्यमध्ये ययौ राजन्कुरुराजो युधिष्ठिरः। द्रौपदीप्रमुखा नार्यः सानुगाः सपरिच्छदाः
आरुह्य ता विचित्राङ्ग्यो यानानि विविधानि च। महत्या सेनया राजन्नग्रे यानानि विविधानि च
समृद्धनरनागाश्वं सपताकरथध्वजम्। संनद्धवरनिस्त्रिंशं पथि निर्घोषनिः स्वनम्
शङ्खदुन्दुभितालानां वेणुवीणानुवनादितम्। शुशुभे पाण्डवं सैन्यं प्रयास्यत्तत्तदा नृप
यथा कुबेरो लङ्कायां पुरा चात्यन्तशोभया। महत्या सेनया सार्धं गुरुमिन्द्रं स गच्छति
तथा ययौ स पार्थोऽपि असङ्ख्येयविभूतिना। सुसमृद्धेन सैन्येन यथा वैश्रवणस्तथा
स सरांसि नदीश्चैव वनान्युपवनानि च। अत्यक्रामन्महाराज पुरीं चाभ्यवपद्यत
स हास्तिनसमीपे तु कुरुराजो युधिष्ठिरः। चक्रे निवेशनं तत्र ततः स सहसैनिकाः