न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते। यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्
सर्वथा पुत्र बलिभिर्विग्रहो मे रोचते। वैरं विकारं सृजति तद्वै शस्त्रमनायसम्
अनर्थमर्थं मन्यसे राजपुत्र सङ्ग्रन्थनं कलहस्यातियाति। तद्वै प्रवृत्तं तु यथाकथञ्चित् सृजेदसीन्निशितान्सायकांश्च
द्यूते पुराणैर्व्यवहारः प्रणीत- स्तत्रात्ययो नास्ति न सम्प्रहारः। तद्रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व
स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम्। भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व
वाक्यं न मे रोचते यत्त्वयोक्तं यत्ते प्रियं तत्क्रियतां नरेन्द्र। पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम्
दृष्टं ह्येतद्विदुरेणै सर्वं विपश्चिता बुद्धिविद्यानुगेन। तदेवैतदवशस्याभ्युपैति महद्भयं क्षत्रियजीवघाति
एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च। शशासोच्चैः पुरुषान्पुत्रवाक्ये स्थितो राजा दैवसंमूढचेताः
सहस्रस्तम्भां हेमवैदूर्यचित्रां शतद्वारां तोरणस्फाटिकाढ्याम्। सभामग्र्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः
श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तदा चक्रुराशु। सर्वद्रव्याण्युपजह्रुः सभायां सहस्रशः शिल्पिनश्चैव युक्ताः
कालेनाल्पेनाथ निष्ठां गतां तां सभां रम्यां बहुरत्नां विचित्राम्। चित्रैर्हैमैरासनैरभ्युपेता- माचख्युस्ते तस्य राज्ञः प्रतीताः
ततो विद्वान्विदुरं मन्त्रिमुख्य- मुवाचेदं धृतराष्ट्रो नरेन्द्रः। युधिष्ठिरं राजपुत्रं च गत्वा मद्वाक्येन क्षिप्रमिहानयस्व
सभेयं मे बहुरत्ना विचित्रा शय्यासनैरुपपन्ना महार्हैः। सा दृश्यतां भ्रातृभिः सार्धमेत्य मुहृद्द्यूतं वर्ततामत्र चेति
मतमाज्ञाय पुत्रस्य धृतराष्ट्रो नराधिपः। मत्वा च दुस्तरं दैवमेतद्राजंश्चकार ह
अन्यायेन तथोक्तस्तु विदुरो विदुषां वरः। नाभ्यनन्दद्वचो भ्रातुर्वचनं चेदमब्रवीत्
नाभिनन्दे नृपते प्रैषमेतं मैवं कृथाः कुलनाशाद्बिभेमि। पुत्रैर्भिन्नः कलहस्ते ध्रुवं स्या- देतच्छङ्के द्यूतकृते नरेन्द्र
नेह क्षत्तः कलहस्तप्स्यते मां न चेद्दैवं प्रतिलोमं भविष्यत्। छात्रा तु दिष्टस्य वशे किलेदं सर्वं जगच्चेष्टति न स्वतन्त्रम्
तदद्य विदुर प्राप्य राजानं मम शासनात्। क्षिप्रमानय दुर्धर्षं कुन्तीपुत्रं युधिष्ठिरम्
ततः प्रायाद्विदुरोऽश्वैरुदारै- र्महाजवैर्बलिभिः साधु दान्तैः। बलान्नियुक्तो धृतराष्ट्रेण राज्ञा मनीषिणां पाण्डवानां सकाशे
सोऽभिपत्य तदध्वानमासाद्य नृपतेः पुरम्। प्रविवेश महाबुद्धिः पूज्यमानो द्विजातिभिः
स राजगृहमासाद्य कुबेरभवनोपमम्। अभ्यागच्छत धर्मात्मा धर्मपुत्रं युधिष्ठिरम्
तं वै राजा सत्यधृतिर्महात्मा अजातशत्रुर्विदुरं यथावत्। पूजापूर्वं प्रतिगृह्याजमीढ- स्ततोऽपृच्छद्धृतराष्ट्रं सपुत्रम्
विज्ञायते ते मनसोऽप्रहर्षः कच्चित्क्षत्तः कुशलेनागतोऽसि। कच्चित्पुत्राः स्थविरस्यानुलोमा वशानुगाश्चापि विशोऽथ कच्चित्
राजा महात्मा कुशली सपुत्र आस्ते वृतो ज्ञातिभिरिन्द्रकल्पः। प्रीतो राजन्पुत्रगुणैर्विनीतो विशोक एवात्मरतिर्महात्मा
इदं तु त्वां कुरुराजोऽभ्युवाच पूर्वं पृष्ट्वा कुशलं चाव्ययं च। इयं सभा त्वत्सभातुल्यरूपा भ्रातॄणां ते दृस्यतामेत्य पुत्र
समागम्य भ्रातृभिः पार्थ तस्यां सुहृद्द्यूतं क्रियतां रम्यतां च। प्रीयामहे भवतां सङ्गमेन समागताः कुरवश्चापि सर्वे
दुरोदरा विहिता ये तु तत्र महात्मना धृतराष्ट्रेण राज्ञा। तान्द्रक्ष्यसे कितवान्सन्निविष्टा- नित्यागतोऽहं नृपते तज्जुषस्व
द्यूते क्षत्तः कलहो विद्यते नः को वै रोचतने बुध्यमानः। किं वा भवान्मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्मः
जानाम्यहं द्यूतमनर्थमूलं कृतश्च यत्नोऽस्य मया निवारणे। राजा च मां प्राहिमोत्त्वत्सकाशं श्रुत्वा विद्वञ्श्रेय इहाचरस्व
के तत्रान्ये कितवा दीव्यमाना विना राज्ञो धृतराष्ट्रस्य पुत्रैः। पृच्छामि त्वां विदुर ब्रूहि नस्तान् यैर्दीव्यामः शतशः सन्निपत्य