उत्पपात महावीर्यः पक्षिराट् परवीरहा। समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्
वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्। पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः। नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः
कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत। निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्। पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान्
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः। नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्। प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्। मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्। क्रथनेन च शूरेण तपनेन च खेचरः
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्। प्ररुजेन च संग्रामं चकार पुलिनेन च
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः। युगान्तकाले संक्रुद्धः पिनाकीव परंतप
महाबला महोत्साहास्तेन ते बहुधा क्षताः। रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान्। अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम्। दहन्तमिव तीक्ष्णांशुं चण्डवायुसमीरितम्
ज्वलन्तमग्निं तममित्रतापनः समास्तरत्पत्ररथो नदीभिः। ततः प्रचक्रे वपुरन्यदल्पं प्रवेष्टुकामोऽग्निमभिप्रशाम्य
सुशीघ्रमागम्य पुनर्जवेन
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः। प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके। परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्। घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्
तस्यान्तरं स दृष्ट्वै पर्यवर्तत खेचरः। अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह
अधश्चक्रस्य चैवात्र दीप्तानलसमद्व्युती। विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ
चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ। अमृतस्यैव रक्षार्थं ददर्श भुजगोत्तमौ
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ। तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्
तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः। कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ
इति संचिन्त्य गरुडस्तयोस्तूर्णं निराकरः।' तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत्। ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः। आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली। उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः। आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः
विष्णुना च तदाकाशे वैनतेयः समेयिवान्। तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्। स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः
उवाच चैनं भूयोऽपि नारायणमिदं वचः। अजरश्चामरश्च स्याममृतेन विनाऽप्यहम्