अद्रोहसमंय कृत्वा चिच्छेद नमुचेः शिरः। शक्रः साऽभिमता तस्य रिपौ वृत्तिः सनातनी
द्वावेतौ ग्रसते भूमिः सर्पो बिलशयानिव। राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्
नास्ति वै जातितः शत्रुः पुरुषस्य विशाम्पते। येन साधारणी वृत्तिः स शत्रुर्नेतरो जनः
शत्रुपक्षं समृध्यन्तं यो मोहात्समुपेक्षते। व्याधिराप्यायित इव तस्य मूलं छिनत्ति सः
अल्पोऽपि ह्यरिरत्यर्थं वर्धमानः पराक्रमैः। वल्मीको मूलज इव ग्रसते वृक्षमन्तिकात्
आजमीढ रिपोर्लक्ष्मीर्मा ते रोचिष्ट भारत। एष भारः सत्ववतां न यः शिरसि धिष्ठितः
जन्मवृद्धिमिवार्थानां यो वृद्धिमाभिकाङ्क्षते। एधते ज्ञातिषु स वै सद्यो वृद्धिर्हि विक्रमः
नाप्राप्य पाण्डवैश्वर्यं संशयो मे भविष्यति। अवाप्स्ये वा श्रियं तां हि शयिष्ये वा हतो युधि
एतादृशस्य किं मेऽद्य जीवितेन विशाम्पते। वर्धन्ते पाण्डवा नित्यं वयं स्वस्थिरवृद्धयः
यां त्वमेतां श्रियं पाण्डुपुत्रे युधिष्ठिरे। तप्यसे तां हरिष्यामि द्यूतेन जयतां वर
आहूयतां परं राजन्कुन्तीपुत्रो युधिष्ठिरः। अगत्वा संशयमहमयुद्ध्वा च चमूमुखे
अक्षान्क्षिपन्नक्षतः सन्विद्वानविदुषो जये। ग्लहान्धनूंषि मे विद्धि शरानक्षांश्च भारत
अक्षाणां हृदयं मे ज्यां रथं विद्धि ममास्फुरम्
अयमुत्सहते राजच्छ्रियमाहर्तुमक्षवित्। द्यूतेन पाण्डुपुत्रेभ्यस्तदनुज्ञातुमर्हसि
स्थितोऽस्मि शासने भ्रातुर्विदुरस्य महात्मनः। तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्
कृष्णादभ्याधिकः सोऽपि क्षत्ता बोद्धा विशाम्पते। केवलं धर्ममेवाह न तद्विजयसाधकम्
जयश्च धर्मतोपेतस्तथैव भरतर्षभ। तस्माद्विनयतो जेता तावुभौ च विरोधिनौ
व्यपनेष्यति ते बुद्धिं विदुरो मुक्तसंशयः। पाण्डवानां हिते युक्तो न तथा मम कौरव
नारभेतान्यसामर्थ्यात्पुरुषः कार्यमात्मनः। मतिसाम्यं द्वयोर्नास्ति कार्येषु कुरुनन्दन
भयं परिहरन्मत्त आत्मानं परिपालयन्। वर्षासु क्लिन्नवटवत्तिष्ठन्नैवावसीदति
न व्याधयो नापि यमः प्राप्तुं श्रेयः प्रतीक्षते। यावदेव भवेत्कल्पस्तावच्छ्रेयः समाचरेत्
सर्वथा पुत्र बलिभिर्विग्रहो मे रोचते। वैरं विकारं सृजति तद्वै शस्त्रमनायसम्
अनर्थमर्थं मन्यसे राजपुत्र सङ्ग्रन्थनं कलहस्यातियाति। तद्वै प्रवृत्तं तु यथाकथञ्चित् सृजेदसीन्निशितान्सायकांश्च
द्यूते पुराणैर्व्यवहारः प्रणीत- स्तत्रात्ययो नास्ति न सम्प्रहारः। तद्रोचतां शकुनेर्वाक्यमद्य सभां क्षिप्रं त्वमिहाज्ञापयस्व
स्वर्गद्वारं दीव्यतां नो विशिष्टं तद्वर्तिनां चापि तथैव युक्तम्। भवेदेवं ह्यात्मना तुल्यमेव दुरोदरं पाण्डवैस्त्वं कुरुष्व
वाक्यं न मे रोचते यत्त्वयोक्तं यत्ते प्रियं तत्क्रियतां नरेन्द्र। पश्चात्तप्स्यसे तदुपाक्रम्य वाक्यं न हीदृशं भावि वचो हि धर्म्यम्
दृष्टं ह्येतद्विदुरेणै सर्वं विपश्चिता बुद्धिविद्यानुगेन। तदेवैतदवशस्याभ्युपैति महद्भयं क्षत्रियजीवघाति
एवमुक्त्वा धृतराष्ट्रो मनीषी दैवं मत्वा परमं दुस्तरं च। शशासोच्चैः पुरुषान्पुत्रवाक्ये स्थितो राजा दैवसंमूढचेताः
सहस्रस्तम्भां हेमवैदूर्यचित्रां शतद्वारां तोरणस्फाटिकाढ्याम्। सभामग्र्यां क्रोशमात्रायतां मे तद्विस्तारामाशु कुर्वन्तु युक्ताः
श्रुत्वा तस्य त्वरिता निर्विशङ्काः प्राज्ञा दक्षास्तां तदा चक्रुराशु। सर्वद्रव्याण्युपजह्रुः सभायां सहस्रशः शिल्पिनश्चैव युक्ताः