यथाऽतिमात्रं कौन्तेयः श्रिया परमया युतः। राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः
एतां दृष्टा श्रियं पार्थे हरिश्चन्द्रे यथा विभो। कथं तु जीवितं श्रेयो मम पश्यसि भारत
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप। कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्त एव च
एवं दृष्ट्वा नाभिविन्दामि शर्म समीक्षमाणोऽपि कुरुप्रवीर। तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः। द्वेषा ह्यसुखमादत्ते यथैव निघनं तथा
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्। अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप। पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ। ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्
आहरिष्यन्ति राजानस्तवापि विपुलं धनम्। प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च
अनार्याचरितं तात परस्वस्पृहणं भृशम्। स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते
मही कामदुघा सा हि वीरपत्नीति चोच्यते। तथा वीरस्य भार्या श्रीस्ते इमे हि कलत्रवत्
तवाप्यस्ति हे चेद्वीर्यं भोक्ष्यसे हि महीमिमाम्
अयुक्तमिदमेतत्तु परस्वहरणं भृशम्। उभयोर्लोकयोर्दुःखं सुहृदां काङ्क्षतोऽनयम्
अव्यापारः परार्तेषु नित्योद्योगः स्वकर्मसु। रक्षणं समुपात्तानामेतद्वैभवलक्षणम्
विपत्तिष्वव्यथो दक्षो नित्यमुत्थानवान्नरः। अप्रमत्तो विनीतात्मा नित्यं भद्राणि पश्यति
बाहूनिवैतान्मा च्छेत्सीः पाण्डुपुत्रास्तथैव ते। भ्रातृणां तद्धनार्थं वै मित्रद्रोहं च मा कुरु
पाण्डोः पुत्रान्मा द्विषस्वेह राजं- स्तथैव ते भ्रातृधनं समग्रम्। मित्रद्रोहे तात महानघर्मः पितामहा ये तव तेऽपि तेषाम्
अन्तर्वेद्यां ददद्वित्तं कामाननुभवन्प्रियान्। क्रीडन्स्त्रीभिर्निरातङ्कः प्रशाम्य भरतर्षभ
यस्य नास्ति निजा प्रज्ञा केवलं तु बहुश्रुतः। न स जानाति शास्त्रार्थं दर्वी सूपरसानिव
जानन्वै मोहयति मां नावि नौरिव संयता। स्वार्थे किं नावधानं ते उताहो द्वेष्टि मां भवान्
न सन्तीमे धार्तराष्ट्रा येषां त्वमनुशासिता। भविष्यमर्थमाख्यासि सर्वदा कृत्यमात्मनः
परनेयोऽग्रणीर्यस्य स मार्गान्प्रतिमुह्यति। पन्थानमनुगच्छेयुः कथं तस्य पदानुगाः
राजन्परिणतप्रज्ञो वृद्धसेवी जितेन्द्रियः। प्रतिपन्नान्स्वकार्येषु संमोहयसि नो भृशम्
लोकवृत्ताद्राजवृत्तमन्यदाह बृहस्पतिः। तस्माद्राज्ञाऽप्रमत्तेन स्वार्थश्चिन्त्यः सदैव हि
क्षत्रियस्य महाराज जये वृत्तिः समाहिता। स वै धर्मस्त्वधर्मो वा स्ववृत्तौ का परीक्षणा
प्रकालयेद्दिशः सर्वाः प्रतोदेनेव सारथिः। प्रत्यमित्रश्रियं दीप्तां जिघृक्षुर्भरतर्षभ
प्रच्छन्नो वा प्रकाशो वा योगो योऽरिं प्रबाधते। तद्वै शस्त्रं शस्त्रविदां न शस्त्रं छेदनं स्मृतम्
शत्रुश्चैव हि मित्रं च न लेख्यं न च मातृका। यो वै सन्तापयति यं स शत्रुः प्रोच्यते नृप
असन्तोषः श्रियो मूलं तस्मात्तं कामयाम्यहम्। समुच्छ्रये यो यतते स राजन्परमो नयः
ममत्वं हि न कर्तव्यमैश्वर्ये वा धनेऽपि वा। पूर्वावाप्तं हरन्त्यन्ये राजध्रमं हि तं विदुः