दक्षिणार्थं समानीत राजभिः कांस्यदोहनाः। आरण्या बहुसाहस्रा अपश्यंस्तत्रतत्र गाः
आजह्रस्तत्र सत्कृत्य स्वयमुद्यम्य भारत। अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः
बाह्लीको रथमाहार्षीज्जाम्बूनदविभूषितम्। सुदक्षिणस्तु युयुजे श्वेतैः काम्भोजजैर्हयैः
सुनीथः प्रीतिमांश्चैव ह्यनुकर्षं महाबलः। ध्वजं चेदिपतिश्चैवमहार्षीत्स्वयमुद्यतम्
दाक्षिणात्यः सन्नहनं स्रगुष्णीषे च मागधः। वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्
मत्स्यस्त्वक्षान्हेमनद्धानेकलव्य उपानहौ। आवन्त्यस्त्वभिषेकार्थमपो बहुविधास्तथा
चेकितान उपासङ्गं धनुः काश्य उपाहरत्। असिं च सुत्सरुं शल्यः शैक्यं काञ्चनभूषणम्
अभ्यपिञ्चत्ततो धौम्यो व्यासश्च समुहातपाः। नारदं च पुरस्कृत्य देवलं चासितं मुनिम्
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः। जामदग्न्येन सहितास्तथान्ये वेदपारगाः
अभिजग्मर्महात्मानो मन्त्रवद्भूरिदक्षिणम्। महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा
अधारयच्छत्रमस्य सात्यकिः सत्यविक्रमः। धनञ्जयश्च व्यजने भीमसेनश्च पाण्डवः
चामरे चापि शुद्धे द्वे यमौ जगृहतुस्तथा। उपागृह्णाद्यमिन्द्राय पुराकल्पे प्रजापतिः
तमस्मै शङ्खमाहार्षीद्वारुणं कलशोदधिः। शैक्यं निष्कसहस्रेण सुकृतं विश्वकर्मणा
तेनाभिषिक्तः कृष्णेन तत्र मे कश्मलोऽभवत्। गच्छन्ति पूर्वादपरं समुद्रं चापि दक्षिणम्
उत्तरं तु गच्छन्ति विना तात पतत्र्रिभिः। तत्र स्म दध्मुः शतशः शङ्खान्मङ्गलकारकान्
प्राणदन्त समाध्मातास्ततो रोमाणि मेऽहृषन्। प्रापतन्भूमिपालाश्च ये तु हीनाः स्वतेजसा
धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः। सत्वस्था वीर्यसम्पन्ना ह्यन्योन्यप्रियदर्शनाः
विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा। ततः प्रहृष्टो बीभत्सुः प्रादाद्धेमविषाणिनाम्
शतान्यनडुहां पञ्च द्विजमुख्येषु भारत। न रन्तिदेवो नाभागो यौवनाश्वो मनुर्न च
न च राजा पृथुर्वैन्यो न चाप्यासीद्भगीरथः। ययातिर्नहुषो वापि यथा राजा युधिष्ठिरः
यथाऽतिमात्रं कौन्तेयः श्रिया परमया युतः। राजसूयमवाप्यैवं हरिश्चन्द्र इव प्रभुः
एतां दृष्टा श्रियं पार्थे हरिश्चन्द्रे यथा विभो। कथं तु जीवितं श्रेयो मम पश्यसि भारत
अन्धेनेव युगं नद्धं विपर्यस्तं नराधिप। कनीयांसो विवर्धन्ते ज्येष्ठा हीयन्त एव च
एवं दृष्ट्वा नाभिविन्दामि शर्म समीक्षमाणोऽपि कुरुप्रवीर। तेनाहमेवं कृशतां गतश्च विवर्णतां चैव सशोकतां च
त्वं वै ज्येष्ठो ज्यैष्ठिनेयः पुत्र मा पाण्डवान्द्विषः। द्वेषा ह्यसुखमादत्ते यथैव निघनं तथा
अव्युत्पन्नं समानार्थं तुल्यमित्रं युधिष्ठिरम्। अद्विषन्तं कथं द्विष्यात्त्वादृशो भरतर्षभ
तुल्याभिजनवीर्यश्च कथं भ्रातुः श्रियं नृप। पुत्र कामयसे मोहान्मैवं भूः शाम्य मा शुचः
अथ यज्ञविभूतिं तां काङ्क्षसे भरतर्षभ। ऋत्विजस्तव तन्वन्तु सप्ततन्तुं महाध्वरम्
आहरिष्यन्ति राजानस्तवापि विपुलं धनम्। प्रीत्या च बहुमानाच्च रत्नान्याभरणानि च
अनार्याचरितं तात परस्वस्पृहणं भृशम्। स्वसन्तुष्टः स्वधर्मस्थो यः स वै सुखमेधते