आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः। यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत्। तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान्। मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान्
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम्। चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च। शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः। ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः। उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम्। सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा
नानादेशसमुत्थैश्चन नानाजितिभिरेव च। पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून्। शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत
भृत्यास्तु ये पाण्डवानां तांस्ते वक्ष्यामि पार्थिव। येषामामं च पक्वं च संविधत्ते युधिष्ठिरः
अयुतं त्रीणि पद्मानि गजारोहाः ससादिनः। थानामर्बुदं चापि पादाता बहवस्तथा
प्रमीयमाणमां च पच्यमानं तथैव च। विसृज्यमानं चान्यत्र पुण्याहस्वन एव च
नाभुक्तवन्तं नापीतं नालङ्कृतमसत्कृतम्। पश्यं सर्ववर्णानां युधिष्ठिरनिवेशने
अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः। त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः। सुप्रीताः परितृष्टाश्च ते ह्याशंसत्त्यरिक्षयम्
दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्। भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने
अभुक्तं भुक्तवद्वापि सर्वमाकुब्जवामनम्। अभुञ्जाना याज्ञसेनी प्रत्यवैक्षद्विशाम्पते
द्वौ करौ न प्रयच्छेतां कुन्तीपुत्राय भारत। साम्बन्धिकेनपाञ्चालाः सख्येनान्धकवृष्णयः
आर्यास्तु ये वै राजानः सत्यसन्धा महाव्रताः। पर्याप्तविद्या वक्तारो वेदान्तावभृथप्लुताः
धृतिमन्तो ह्रीनिषेवा धर्मात्मानो नाशस्विनः। मूर्धाभिषिक्तास्ते चैनं राजानः पर्युपांसते
दक्षिणार्थं समानीत राजभिः कांस्यदोहनाः। आरण्या बहुसाहस्रा अपश्यंस्तत्रतत्र गाः
आजह्रस्तत्र सत्कृत्य स्वयमुद्यम्य भारत। अभिषेकार्थमव्यग्रा भाण्डमुच्चावचं नृपाः
बाह्लीको रथमाहार्षीज्जाम्बूनदविभूषितम्। सुदक्षिणस्तु युयुजे श्वेतैः काम्भोजजैर्हयैः
सुनीथः प्रीतिमांश्चैव ह्यनुकर्षं महाबलः। ध्वजं चेदिपतिश्चैवमहार्षीत्स्वयमुद्यतम्
दाक्षिणात्यः सन्नहनं स्रगुष्णीषे च मागधः। वसुदानो महेष्वासो गजेन्द्रं षष्टिहायनम्
मत्स्यस्त्वक्षान्हेमनद्धानेकलव्य उपानहौ। आवन्त्यस्त्वभिषेकार्थमपो बहुविधास्तथा
चेकितान उपासङ्गं धनुः काश्य उपाहरत्। असिं च सुत्सरुं शल्यः शैक्यं काञ्चनभूषणम्
अभ्यपिञ्चत्ततो धौम्यो व्यासश्च समुहातपाः। नारदं च पुरस्कृत्य देवलं चासितं मुनिम्
प्रीतिमन्त उपातिष्ठन्नभिषेकं महर्षयः। जामदग्न्येन सहितास्तथान्ये वेदपारगाः
अभिजग्मर्महात्मानो मन्त्रवद्भूरिदक्षिणम्। महेन्द्रमिव देवेन्द्रं दिवि सप्तर्षयो यथा