चौण्डिकाश्चौदकाश्चैव साल्वाश्चैव विशम्पते। अङ्कवङ्काश्च यवना अनवद्या गयैः सह
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः। आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवै
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः। दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत
उपावृत्ता नृपास्तस्य ददुः प्रीतिं न चागमन्। उच्यन्ते तत्र हि द्वार्स्थैर्बलिमादाय विष्ठिताः
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथावृतान्। शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः
क्षमावतः कुलीनांश्च कुञ्जरान्सपरिच्छदान्। दत्त्वैकैको दशशतान्द्वारेण प्रविशन्त्विति
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः। मरुकाः काशिका दर्दा भौमेया नटनाटकाः
कर्णाटाः कांस्यकुट्टाश्च पद्मजालाः सतीनराः। दाक्षिणात्याः पुलिन्दाश्च शवेरास्तङ्कणाः शषाः
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा। पल्लवाः शककारूशास्तुम्बकाः काशिकास्तदा
एते चान्ये च बहवो नानादिगभ्यः समागताः। अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः
समुद्रसारवैडूर्यान्मुक्ताः शङ्खास्तथैव च। शुभावर्ताञ्छुभाञ्छुक्तीः सिंहलाः समुपाहरन्
सम्भृतान्मणिचीरैश्च श्यामांस्ताम्रान्तलोचनान्। राजा चित्ररथो नाम गन्धर्वो वासवानुगः। शतानि चत्वार्यददद्धयानां वातरंहसाम्
तुम्बुरुस्तु प्रमुदितो गन्धर्वो वाजिनां शतम्। आम्रपत्रसवर्णानामददद्धेममालिनाम्
कृती राजा च कौरव्य शूकराणां विशाम्पते। अददद्गजरत्नानां शतानि सुबहून्यथ
विराटेन तु मत्स्येन बल्यर्थं हेममालिनाम्। कुञ्जराणां सहस्रे द्वे मत्तानां समुपाहृते
पांसुराष्ट्राद्वमुदानो राजा षड्विंशतिं गजान्। अश्वानां चसहस्रे द्वे राजन्काञ्चनमालिनाम्
जवसत्वोपपन्नानां वयस्थानां नराधिप। बलिं च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत्
यज्ञसेनेन दासीनां सहस्राणि चतुर्दश। दासानामयुतं चैव सदाराणां विशाम्पते
गजयुक्ता महाराज रथाः षड्विंशतिस्तथा। राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम्
वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन्किरीटिनः। अददद्गजमुख्यानां सहस्राणि चतुर्दश
आत्मा हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः। यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम्
कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत्। तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत्
सुरभींश्चन्दनरसान्हेमकुम्भसमास्थितान्। मलयाद्दर्दुराच्चैव चन्दनागुरुसञ्चयान्
मणिरत्नानि भास्वन्ति काञ्चनं सूक्ष्मवस्त्रकम्। चोलपाण्ड्यावपि द्वारं न लेभाते ह्युपस्थितौ
समुद्रसारं वैदूर्यं मुक्तासङ्घांस्तथैव च। शतशश्च कुथांस्तत्र सिंहलाः समुपाहरन्
संवृता मणिचीरैस्तु श्यामास्ताम्रान्तलोचनाः। ता गृहीत्वा नरास्तत्र द्वारि तिष्ठन्ति वारिताः
प्रीत्यर्थं ब्राह्मणश्चैव क्षत्रियाश्च विनिर्जिताः। उपाजह्रुर्विशश्चैव शूद्राः शुश्रूषवस्तथा
प्रीत्या च बहुमानाच्चाप्युपागच्छन्युधिष्ठिरम्। सर्वे म्लेच्छाः सर्ववर्णा आदिमध्यान्तजास्तथा
नानादेशसमुत्थैश्चन नानाजितिभिरेव च। पर्यस्त इव लोकोऽयं युधिष्ठिरनिवेशने
उच्चावचानुपग्राहान्राजभिः प्रापितान्बहून्। शत्रूणां पश्यतो दुःखान्मुमूर्षा मे व्यजायत