अन्यांश्च विविधान्धान्यान्परिगृह्य महाबलः। पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम्
नानारत्नान्बहून्गृह्य सुराष्ट्राधिपतिर्नृपः। तैलकुम्भान्महाराज द्रोणानामयुतानि च
गुडानपि स तान्स्वादून्सहस्रशकटैर्नृपः। एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः
अन्ये च पार्थिवा राजन्नानादेशसमागताः। रत्नानि विविधान्गृह्य ददुस्ते कौरवाय तु
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते। करं तु न प्रयच्छेत नास्ति पार्थस्य पार्थिवः
नरः सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः। क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा
इमांश्च दायान्विविधान्निबोध मम पार्थिव। यज्ञाप्थे राजभिर्दत्तान्महतो धनसञ्चयान्
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्। ये ते कीचकवेणूनां छायां रम्यामुपासते
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः। पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः। जातरूपं द्रोणमेयमहार्षुः कुञ्जशो नराः
कृष्णवालांश्च चमराञ्छुक्लवालांस्तथा परान्। हिमवत्पुष्पजं चैव स्वादुक्षौद्ररसं बहु
उत्तरेभ्यः कुरुभ्यश्च व्यूढमाल्यैर्महात्मभिः। उत्तरादपि कैलासादोषधीः सुमहाबलाः
पार्वतीयाश्चराजान आहृत्य प्रणताः स्थिताः। अजातशत्रवे राजन्द्वारि तिष्ठन्ति वारिताः
ये परार्घ्या हिमवतः सूर्योदयगिरेरनु। एवंरूपाः समुद्रान्ते लौहित्यमभितश्च ये
फलमूलाशना ये च किराताश्चर्मवाससः। चन्द्नागरुमुख्यानि महार्हान्कम्बलानि च
चर्मरत्नसुवर्णानि गन्धानुच्चावचानि च। कैरातकीनामयुतं दासीनां च विशंपते
आहृत्य रमणीयार्थान्दूरगान्मृगपक्षिणः। निचितं पर्वतेभ्यश्च हिरण्यंभूरिवर्चसम्
बलिं च कृत्स्त्रमादाय द्वारि तिष्टन्ति वारिताः। कापव्या दरदा दर्वाः शूरा वै यमकास्तथा
औदुम्बरा दुर्विभागा द्वारि तिष्टन्ति वारिताः। काश्मीराश्च कुमाराश्च गौरका हंसकास्तथा
शिबित्रैगर्तयौधेया राजन्या मद्रकैः सह। वसुतेयाः समौलेया दाहक्षुद्रकमालवैः
चौण्डिकाश्चौदकाश्चैव साल्वाश्चैव विशम्पते। अङ्कवङ्काश्च यवना अनवद्या गयैः सह
सुजातयः श्रेणिमन्तः श्रेयांसः शस्त्रधारिणः। आहार्षुः क्षत्रिया वित्तं शतशोऽजातशत्रवै
वङ्काः कलिङ्गा मगधास्ताम्रलिप्ताः सपुण्ड्रकाः। दुकूलं कौशिकं चैव पत्रोर्णं चैव भारत
उपावृत्ता नृपास्तस्य ददुः प्रीतिं न चागमन्। उच्यन्ते तत्र हि द्वार्स्थैर्बलिमादाय विष्ठिताः
ईषादन्तान्हेमकक्ष्यान्पद्मवर्णान्कुथावृतान्। शैलाभान्नित्यमत्तांश्चाप्यभितः काम्यकं सरः
क्षमावतः कुलीनांश्च कुञ्जरान्सपरिच्छदान्। दत्त्वैकैको दशशतान्द्वारेण प्रविशन्त्विति
वैदेहकाश्च पुण्ड्राश्च गौलेयास्ताम्रलिप्तकाः। मरुकाः काशिका दर्दा भौमेया नटनाटकाः
कर्णाटाः कांस्यकुट्टाश्च पद्मजालाः सतीनराः। दाक्षिणात्याः पुलिन्दाश्च शवेरास्तङ्कणाः शषाः
बर्बरा यवनाश्चैव गर्गराभीरकास्तथा। पल्लवाः शककारूशास्तुम्बकाः काशिकास्तदा
एते चान्ये च बहवो नानादिगभ्यः समागताः। अन्यैश्चोपहृतान्यत्र रत्नानि हि महात्मभिः