पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः। कालेयकं च रूप्यं च परिगृह्य परिच्छदान्
अगरून्स्फाटिकांश्चैव दन्ताञ्जातीफलानि च। तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबल
अन्यांश्च विविधान्द्रव्यान्परिगृह्योपतस्थिरे। एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः
शैलेयश्च ततो राजा पत्रोर्णान्परिगृह्य सः। द्वारि तिष्ठन्महाराज द्वारपालैर्निवारितः
चीना हूणाः कषाः काचाः पर्वतान्तरवासिनः। आहार्षुर्दशसाहस्रान्विन्नीतान्दिक्षु विंश्रुतान्
औष्णीकं कम्बलं चैव कीटजं मणिजं तथा। प्रमाणरागस्पर्शाढ्यं बाह्वीचीनसमुद्भवम्
रसान् गन्धान्प्रशंसन्तस्ततो द्वारमलभ्यत। खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा
चेलान्बहुविधान्गृह्य द्वारि तिष्ठन्ति वारिताः। प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा
नापितास्त्रैपुराश्चैव पञ्चमेयाः सहोरुजाः। तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान्
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः। शकास्तुषाराः कौरव्य रोमकाः शृङ्गिणोश्मकाः
बलादूरुगमा राजन्गणितं चार्बुदं मया। कूटीकृतं सुवर्णं च पद्मकिञ्जल्कसंनिभम्
शितान्दीर्घानसीनन्यान्यष्टिशक्तिपरश्वथान्। श्लक्ष्णं वस्त्रमकार्पसमाविकं मृदु चाजिनम्
बलं मत्तं समादाय द्वारि तिष्ठन्ति वारिताः। आसनानि महार्हाणि यानानि शयनानि च
मणिकाञ्चनचित्राणि गजदन्तमयानि च। रथांश्च विविधाकाराञ्जाम्बूनदपरिष्कृतान्
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारितान्। विचित्रान्सपरिस्तोमांश्चापानि विविधानि च
नाराचानर्घनाराचाञ्छस्त्राणि विविधानि च। एतद्द्रव्यं महद्गृह्य पूर्वदेशाधिपो नृपः
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः। जन्तुचेलान्द्विसाहस्रान्दुकूलान्ययुतानि च
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च। एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा
अन्यान्बहुविधान्राजन्नरः सागरमाश्रिताः। रत्नानि विविधान्गृह्य ददुस्ते पाण्डवाय तु
मालवाश्च ततो राजन्रत्नानि विविधानि च। गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम्
अन्यांश्च विविधान्धान्यान्परिगृह्य महाबलः। पाण्डवाय ददौ प्रीत्या प्रविवेश महाध्वरम्
नानारत्नान्बहून्गृह्य सुराष्ट्राधिपतिर्नृपः। तैलकुम्भान्महाराज द्रोणानामयुतानि च
गुडानपि स तान्स्वादून्सहस्रशकटैर्नृपः। एतानि सर्वाण्यादाय ददौ कुन्तीसुताय सः
अन्ये च पार्थिवा राजन्नानादेशसमागताः। रत्नानि विविधान्गृह्य ददुस्ते कौरवाय तु
जम्बूद्वीपे समस्ते तु सराष्ट्रवनपर्वते। करं तु न प्रयच्छेत नास्ति पार्थस्य पार्थिवः
नरः सप्तसु वर्षेसु तद्यज्ञे नास्ति नागतः। क्रतुर्नानागणैः कीर्णो बभौ शक्रसदो यथा
इमांश्च दायान्विविधान्निबोध मम पार्थिव। यज्ञाप्थे राजभिर्दत्तान्महतो धनसञ्चयान्
मेरुमन्दरयोर्मध्ये शैलोदामभितो नदीम्। ये ते कीचकवेणूनां छायां रम्यामुपासते
खषा एकासनाद्यर्हाः प्रदरा दीर्घवेणवः। पारदाश्च कुलिन्दाश्च तङ्कणाः परतङ्कणाः
तद्वै पिपीलिकं नाम उद्धृतं यत्पिपीलिकैः। जातरूपं द्रोणमेयमहार्षुः कुञ्जशो नराः