कम्बलान्विविधांश्चैव द्वारि तिष्ठन्ति वारिताः। प्राग्ज्योतिषपतिः शूरो म्लेच्छानामधिपो बली
यवनैः सहितो राजा भगदत्तो महाबलः। आजानेयान्हयाञ्छीघ्रमादायानिलरंहसः
बलिं च कृत्स्नमादाय द्वारि तिष्ठति वारितः। अश्वसारमयान्भाण्डाञ्छुभान्दन्तत्सरूनसीन्
प्राग्ज्योतिषाधिपो दत्त्वा भगदत्तोऽव्रजत्तदा। व्यक्षाङ्ख्यक्षांल्ललाटाक्षान्नानादिग्भ्यः समागतान्
औष्णीषआनहयांश्चैव बाहुकान्पुरुषादकान्। एकपादांश्च तत्राहमपश्यं द्वारि वारितान्
बल्यर्थं ददतस्तस्य हिरण्यं रजतं वसु। इन्द्रगोपकसङ्काशाञ्छुकवर्णान्मनोजवान्
तथैवेन्द्रायुधनिभान्सन्ध्याभ्रसदृशानपि। अनेकवर्णानारण्यान्गृहीत्वाश्वांस्तथा बहून्
जातरूपमनर्घ्यं च ददुस्तस्यैकपादकाः। सिंहलश्च तदा राजा परिगृह्य धनं बहु
गोशीर्षं हरितश्यामं चन्दनप्रवरं महत्। भाराणां शतमेकं तु द्वारि तिष्ठति वारितः
ये नग्नविषया राजन्बर्बरेयाश्च विश्रुताः। शतं दासीसहस्राणां कम्बलांश्च सहस्रशः। परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः
पौण्ड्राश्च दामलिप्ताश्च यथाकामकृतो नृपाः। कालेयकं च रूप्यं च परिगृह्य परिच्छदान्
अगरून्स्फाटिकांश्चैव दन्ताञ्जातीफलानि च। तक्कोलांश्च लवङ्गाश्च कर्पूरांश्च महाबल
अन्यांश्च विविधान्द्रव्यान्परिगृह्योपतस्थिरे। एते सर्वे महात्मानो द्वारि तिष्ठन्ति वारिताः
शैलेयश्च ततो राजा पत्रोर्णान्परिगृह्य सः। द्वारि तिष्ठन्महाराज द्वारपालैर्निवारितः
चीना हूणाः कषाः काचाः पर्वतान्तरवासिनः। आहार्षुर्दशसाहस्रान्विन्नीतान्दिक्षु विंश्रुतान्
औष्णीकं कम्बलं चैव कीटजं मणिजं तथा। प्रमाणरागस्पर्शाढ्यं बाह्वीचीनसमुद्भवम्
रसान् गन्धान्प्रशंसन्तस्ततो द्वारमलभ्यत। खर्वटास्तोमराश्चैव शूरा वर्धनकास्तथा
चेलान्बहुविधान्गृह्य द्वारि तिष्ठन्ति वारिताः। प्राक्कोटा नाटकेयाश्च नन्दीनगरकास्तथा
नापितास्त्रैपुराश्चैव पञ्चमेयाः सहोरुजाः। तथा चाटविकाः सर्वे नानाद्रव्यपरिच्छदान्
परिगृह्य महाराज द्वारि तिष्ठन्ति वारिताः। शकास्तुषाराः कौरव्य रोमकाः शृङ्गिणोश्मकाः
बलादूरुगमा राजन्गणितं चार्बुदं मया। कूटीकृतं सुवर्णं च पद्मकिञ्जल्कसंनिभम्
शितान्दीर्घानसीनन्यान्यष्टिशक्तिपरश्वथान्। श्लक्ष्णं वस्त्रमकार्पसमाविकं मृदु चाजिनम्
बलं मत्तं समादाय द्वारि तिष्ठन्ति वारिताः। आसनानि महार्हाणि यानानि शयनानि च
मणिकाञ्चनचित्राणि गजदन्तमयानि च। रथांश्च विविधाकाराञ्जाम्बूनदपरिष्कृतान्
हयैर्विनीतैः सम्पन्नान्वैयाघ्रपरिवारितान्। विचित्रान्सपरिस्तोमांश्चापानि विविधानि च
नाराचानर्घनाराचाञ्छस्त्राणि विविधानि च। एतद्द्रव्यं महद्गृह्य पूर्वदेशाधिपो नृपः
प्रविष्टो यज्ञसदनं पाण्डवस्य महात्मनः। जन्तुचेलान्द्विसाहस्रान्दुकूलान्ययुतानि च
कांस्यानि चैव भाण्डानि महार्हाणि कुथानि च। एतान्यन्यानि रत्नानि ददौ पार्थस्य वै मुदा
अन्यान्बहुविधान्राजन्नरः सागरमाश्रिताः। रत्नानि विविधान्गृह्य ददुस्ते पाण्डवाय तु
मालवाश्च ततो राजन्रत्नानि विविधानि च। गोधूमानां च राजेन्द्र द्रोणानां कोटिसंमितम्