अधारयच्च धर्मश्च तं नमस्य पुनः पुनः। योऽनादनेऽपि नदति स ननादाधिकं तदा
प्रणादाद्भूमिपास्तस्य पेतुर्हीनाः खतेजसा। धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः
सत्वेन स्वेन सम्पन्ना अन्योन्यप्रियकारिणः। विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा
ततः प्रहृष्टो बीभत्सुरददाद्धेमशृङ्गिणः। शताननडुहान्पञ्च द्विजमुख्याय भारत
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे। कुविन्देन हिरण्यं च वासांसि विविधानि च
काश्मीरराजो मार्द्वीकं शुद्धं च सरसं मधु। बलिं च कुत्स्नमादाय पाण्डवायाभ्युटपागमत्
यवना हयानुपादाय पार्वतीयान्मनोजवान्। आसनानि महार्हाणि कम्बलांश्च महाधनान्
नवान्सूक्ष्मांश्च हृद्यांश्च परार्थ्यान्सुप्रदर्शनान्। अन्यच्च विविधं रत्नं द्वारि ते न्यवतस्थिरे
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम्। अङ्गः स्त्रियो दर्शनीया जातरूपविभूषिताः
वङ्गो जाम्बूनदमयान्पर्यङ्गाञ्छतशो नृप। दक्षिणात्सागराभ्याशात्प्रावारांश्च परश्शतम्
औदकानि सरत्नानि बलिं चादाय भारत। अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत्
दार्दुरं चन्दनं मुख्यं भारं षण्णवति द्रुतम्। पाण्डवाय ददौ पाण्ड्यः शङ्खांस्तावत एव च
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिताः। चोलश्च केरलश्चोमौ ददतुः पाण्डवाय वै
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषितः। सवत्साः कुम्भदोहाश्च सहस्राण्यददाद्दश
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम्। अददात्सैन्धवो राजा हेममाल्यैरलङ्कृतान्
सौवीरो हस्तिभिर्युक्तान्रथांश्च त्रिशतं परान्। जातरूपपरिष्कारान्मणिरत्नविभूषितान्
मध्यन्दिनार्कप्रतिमांस्तेजसा ज्वलितानिव। बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्
अवन्तिराजो रत्नानि विविधानि सहस्रशः। हाराङ्गदांश्च मुख्यान्वै विविधं च विभूषणम्
दासीनामयुतं चापि बलिमादाय भारत। सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान्। वस्त्राणि मुख्यान्यादाय रत्नानि विविधानि च। बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्
काशिराजेन हृष्टेन बली राज्ञि निवेदितः। अशीतिगोसहस्राणि शतान्यष्टौ च दन्तिनाम्
अयुतं च नदीजानां हयानां हेममालिनाम्। विविधानि च रत्नानि काशिराजो बलिं ददौ
कृतक्षणश्च वैदेहः कौसलश्च बृहद्बलः। ददतुर्वाजिमुख्यांश्च सहस्राणि चतुर्दश
शैब्यो वसादिभिः सार्धं त्रिगर्तो मालवैः सह। तेभ्यो रत्नानि ददतुरेकैको भूमिपोऽमितम्
हारान्मुख्यान्परार्ध्यांश्च विविधं च विभूषणम्। शतं दासीसहस्राणि कार्पासिकनिवासिनाम्
श्यामास्तन्वीर्दीर्घकेशीर्हेमाभरणभूषिताः। बलिं च कृत्स्नमादाय भारुकच्छो नरर्षभ
शुद्धान्विप्रोत्तमार्हांश्च कम्बलप्रवरान्ददौ। ते सर्वे पाण्डुपुत्रस्य द्वार्यतिष्ठन्दिदृक्षवः
उपायनं यदा दद्युस्तदा द्वारमलभ्यत। इन्द्रकृष्टैर्वर्धयन्ति धान्यैर्नदमुखैस्तु ये
समुद्रनिकटे जाताः परिसिन्धुनिवासिनः। ते वै द्रुमाः पारदाश्च काश्यकैरातकैः सह
बलिं विविधमादाय रत्नानि विविधानि च। अजाविकं गोहिरण्यं खरोष्ट्रं फलवन्मधु