यन्मया पाण्डवोयानां दृष्टं तच्छृणु भारत। आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम्। फलतो भूमितो वाऽपि प्रतिपद्यस्व भारत
और्णान्बैलान्वार्षदंशान् जातरूपपरिष्कृतान्। प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ बहून्
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्। अष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः
गोपाः स्वीयेन सहितास्तदादाय चतुष्पदम्। वसातयोऽन्यद्द्रव्यं द्वारि तस्यावतस्थिरे
कमण्डलूनुपादाय जातरूपमयञ्छिवान्। रत्नानि च हिरण्यं च सुवर्णं चैव केवलम्
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः। त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत्
यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः। प्रीत्या दत्तः कुविन्देन धर्मराजाय धीमते
तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने। तं प्रत्यगृह्णाद्बीभत्सुस्तोयजं हेममालिनम्
चित्रं निष्कसहस्रेण भ्राजमानं स्वतेजसा। रुचिरं दर्शनीयं च पूजितं विश्वकर्मणा
अधारयच्च धर्मश्च तं नमस्य पुनः पुनः। योऽनादनेऽपि नदति स ननादाधिकं तदा
प्रणादाद्भूमिपास्तस्य पेतुर्हीनाः खतेजसा। धृष्टद्युम्नः पाण्डवाश्च सात्यकिः केशवोऽष्टमः
सत्वेन स्वेन सम्पन्ना अन्योन्यप्रियकारिणः। विसञ्ज्ञान्भूमिपान्दृष्ट्वा मां च ते प्राहसंस्तदा
ततः प्रहृष्टो बीभत्सुरददाद्धेमशृङ्गिणः। शताननडुहान्पञ्च द्विजमुख्याय भारत
सुमुखेन बलिर्मुख्यः प्रेषितोऽजातशत्रवे। कुविन्देन हिरण्यं च वासांसि विविधानि च
काश्मीरराजो मार्द्वीकं शुद्धं च सरसं मधु। बलिं च कुत्स्नमादाय पाण्डवायाभ्युटपागमत्
यवना हयानुपादाय पार्वतीयान्मनोजवान्। आसनानि महार्हाणि कम्बलांश्च महाधनान्
नवान्सूक्ष्मांश्च हृद्यांश्च परार्थ्यान्सुप्रदर्शनान्। अन्यच्च विविधं रत्नं द्वारि ते न्यवतस्थिरे
श्रुतायुरपि कालिङ्गो मणिरत्नमनुत्तमम्। अङ्गः स्त्रियो दर्शनीया जातरूपविभूषिताः
वङ्गो जाम्बूनदमयान्पर्यङ्गाञ्छतशो नृप। दक्षिणात्सागराभ्याशात्प्रावारांश्च परश्शतम्
औदकानि सरत्नानि बलिं चादाय भारत। अन्येभ्यो भूमिपालेभ्यः पाण्डवाय न्यवेदयत्
दार्दुरं चन्दनं मुख्यं भारं षण्णवति द्रुतम्। पाण्डवाय ददौ पाण्ड्यः शङ्खांस्तावत एव च
चन्दनागरु चानन्तं मुक्तावैडूर्यचित्रिताः। चोलश्च केरलश्चोमौ ददतुः पाण्डवाय वै
अश्मको हेमशृङ्गीश्च दोग्ध्रीर्हेमविभूषितः। सवत्साः कुम्भदोहाश्च सहस्राण्यददाद्दश
सैन्धवानां सहस्राणि हयानां पञ्चविंशतिम्। अददात्सैन्धवो राजा हेममाल्यैरलङ्कृतान्
सौवीरो हस्तिभिर्युक्तान्रथांश्च त्रिशतं परान्। जातरूपपरिष्कारान्मणिरत्नविभूषितान्
मध्यन्दिनार्कप्रतिमांस्तेजसा ज्वलितानिव। बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्
अवन्तिराजो रत्नानि विविधानि सहस्रशः। हाराङ्गदांश्च मुख्यान्वै विविधं च विभूषणम्
दासीनामयुतं चापि बलिमादाय भारत। सभाद्वारि नरश्रेष्ठ दिदृक्षुरवतिष्ठते
दशार्णश्चेदिराजश्च शूरसेनश्च वीर्यवान्। वस्त्राणि मुख्यान्यादाय रत्नानि विविधानि च। बलिं च कृत्स्नमादाय पाण्डवाय न्यवेदयत्