आरम्भः सफलो देवि भविता यस्त्वयेप्सितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ
तपसा वालखिल्यानां मम संकल्पतस्तथा। भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ
उवाच चैनां भगवान्कश्यपः पुनरेव ह। धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति। लोकसंभावितो वीरः कामरूपो विहङ्गमः
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर। व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तथा
जनयामास पुत्रौ द्वावरुणं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत। तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन
ततस्तस्माद्गिरिवरात्समुदीर्णमहाबलः।' गरुडः पक्षिराट् तूर्णं संप्राप्तो विबुधान्प्रति
तं दृष्ट्वातिबलं चैव प्राकम्पन्त सुरास्ततः। परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्युत
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः। भौमनः सुमहावीर्यः सोमस्य परिरक्षिता
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः। मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः। कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत्
तेनावकीर्णा रजसा देवा मोहमुपागमन्। न चैवं ददृशुश्छन्ना रजसाऽमृतरक्षिणः
एवं संलोडयामास गरुडस्त्रिदिवालयम्। पक्षतुण्डप्रहारैस्तु देवान्स विददार ह
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत्। विक्षिपेमां रजोवृष्टिं तवेदं कर्म मारुत
अथ वायुरपोवाह तद्रजस्तरसा बली। ततो वितिमिरे जाते देवाः शकुनिमार्दयन्
ननादोच्चैः स बलवान्महामेघ इवाम्बरे। वध्यमानः सुरगणैः सर्वभूतानि भीषयन्
उत्पपात महावीर्यः पक्षिराट् परवीरहा। समुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम्
वर्मिमो विबुधाः सर्वे नानाशस्त्रैरवाकिरन्। पट्टिशैः परिधैः शूलैर्गदाभिश्च सवासवाः
क्षुरप्रैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः। नानाशस्त्रविसर्गैस्तैर्वध्यमानः समन्ततः
कुर्वन्सुतुमुलं युद्धं पक्षिराण्ण व्यकम्पत। निर्दहन्निव चाकाशे वैनतेयः प्रतापवान्। पक्षाभ्यामुरसा चैव समन्ताद्व्यक्षिपत्सुरान्
ते विक्षिप्तास्ततो देवा दुद्रुवुर्गरुडार्दिताः। नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम्। प्रजग्मुः सहिता रुद्राः पतगेन्द्रप्रधर्षिताः
दिशं प्रतीचीमादित्या नासत्यावुत्तरां दिशम्। मुहुर्मुहुः प्रेक्षमाणा युध्यमानं महौजसः
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिराट्। क्रथनेन च शूरेण तपनेन च खेचरः
उलूकश्वसनाभ्यां च निमेषेण च पक्षिराट्। प्ररुजेन च संग्रामं चकार पुलिनेन च
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः। युगान्तकाले संक्रुद्धः पिनाकीव परंतप