अश्नाम्याच्छादयामीति प्रपश्यन्हीनपौरुषः। नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणी विभो। ज्वलितामेव कौन्येये श्रियं दृष्ट्वा च विव्यथे
सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम्। स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते
आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः। कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने
हिमवत्सागरानुपाः सर्वे रत्नाकरास्तथा। अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते। युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्। नादृश्यत परः पारो नापरस्तत्र भारत
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः। अतिष्ठन्त मयि श्रान्ते गृग्य दूराहृतं वसु
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्। अपश्यं नलिनीं पूर्णामुदकस्येव भारत
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः। शत्रोर्ऋद्धिविशेषेण विमूढ रत्तवर्जितम्
तत्र स्म यदि शक्तः स्यं पातयेऽहं वृकोदरम्। यदि कुर्यां समारम्भं भीमं हन्तुं नराधिप
शिशुपाल इवास्माकं गतिः स्यान्नात्र संशयः। सपत्नेनावहासो मे स मां दहति भारत
पुनश्च तादृशीमेव वापीं जलजशालिनीम्। मत्वा शिलासमां तोये पतितोऽस्मि नराधिप
तत्र मां प्राहसत्कृष्णः पार्थेन सह सुस्वरम्। द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम
क्लिन्नवस्त्रस्य तु जले किङ्करा राजनोदिताः। ददुर्वासांसि मेऽन्यानि तच्च दुःखं परं मम
प्रलम्भं च शृणुष्वान्यद्वदतो मे नराधिप। अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा। अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः
तत्र मां यमजौ दूरादालोक्याभिहतं तदा। बाहुभिः परिगृह्णीतां शोचन्तौ सहितावुभौ
उवाच सहदेवस्तु तत्र मां विस्मयन्निव। इद द्वारं धार्तराष्ट्र मा गच्छेति पुनः पुनः
भीमसेनेन तत्रोक्तो धृतराष्ट्रात्मजेति च। सम्बोध्य प्रहसित्वा च इतो द्वारं नराधिप
नामधेयानि रत्नानां पुरस्तान्न श्रुतानि मे। यानि दृष्टानि मे तस्यां मनस्तपति तच्च मे
यन्मया पाण्डवोयानां दृष्टं तच्छृणु भारत। आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः
नाविदं मूढमात्मानं दृष्ट्वाहं तदरेर्धनम्। फलतो भूमितो वाऽपि प्रतिपद्यस्व भारत
और्णान्बैलान्वार्षदंशान् जातरूपपरिष्कृतान्। प्रावाराजिनमुख्यांश्च काम्भोजः प्रददौ बहून्
अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान्। अष्ट्रवामीस्त्रिगर्ताश्च पुष्टाः पीलुशमीङ्गुदैः
गोपाः स्वीयेन सहितास्तदादाय चतुष्पदम्। वसातयोऽन्यद्द्रव्यं द्वारि तस्यावतस्थिरे
कमण्डलूनुपादाय जातरूपमयञ्छिवान्। रत्नानि च हिरण्यं च सुवर्णं चैव केवलम्
प्रीयमाणः प्रसन्नात्मा स्वयं स्वजनसंवृतः। त्रैखर्वो रथमुख्येशः पाण्डवाय न्यवेदयत्
यश्च स द्विजमुख्येन राज्ञः शङ्खो निवेदितः। प्रीत्या दत्तः कुविन्देन धर्मराजाय धीमते
तं सर्वे भ्रातरो भ्रात्रे ददुः शङ्खं किरीटिने। तं प्रत्यगृह्णाद्बीभत्सुस्तोयजं हेममालिनम्
चित्रं निष्कसहस्रेण भ्राजमानं स्वतेजसा। रुचिरं दर्शनीयं च पूजितं विश्वकर्मणा