न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते। दैवमेव परं मन्ये येनैतदुपपद्यते
इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन्। आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुः खितः
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम्। यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः
के च तत्र समास्तारा राजानो ब्रह्मवित्तम। के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन्
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज। मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान्। आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्वविद्
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान्। आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्ववित्
विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः। दुर्योधनमिदं वाक्यमुवाच विजने पुनः
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति। न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति
हितं हि परमं मन्ये विदुरो यत्प्रभाषते। क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव
देवर्षिर्वासवागुरुर्देवराजाय धीमते। यत्प्राह शास्त्रं भगवान्बृहस्पतिरुदारधीः। तद्दे विदुरः सर्वं सरहस्यं महाकविः
स्थितस्तु वचने तस्य सदाऽहमपि पुत्रक। विदुरो वापि मेधावी कुरूणां प्रवरो मतः
उद्धवो वा महाबुद्धिर्वृष्णीनामर्चितो नृप। तदलं पुत्र द्यूतेन द्यूते भेदो हि दृश्यते
भेदे विनाशो राज्यस्य तत्पुत्र परिवर्जय
पित्रा मात्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्। प्राप्तस्त्वमसि तन्नाम पितृपैतामहं पदम्
अधीतवान्कृती शास्त्रे लालितः सततं गृहे। भ्रातृज्येष्ठः स्थितो राज्ये विन्दसरे किं न शोभनम्
पृथग्जनैरलभ्यं यद्भोजनाच्छादनं परम्। तत्प्राप्तोसि महाबाहो कस्माच्छोनसि पुत्रक
स्फीतं राष्ट्रं महाबाहो पितृपैतामहं महत्। नित्यमाज्ञापयन्भासि दिवि देवेश्वरो यथा
यादृशं च तवैश्वर्यं तदन्येषां सुदुर्लभम्। ये चोपभोगास्ते राजन्मया ते परिकीर्तिताः
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्। समुत्थितं दुःखकरं तन्मे शंसितुमर्हसि
अश्नाम्याच्छादयामीति प्रपश्यन्हीनपौरुषः। नामर्षं कुरुते यस्तु पुरुषः सोऽधमः स्मृतः
न मां प्रीणाति राजेन्द्र लक्ष्मीः साधारणी विभो। ज्वलितामेव कौन्येये श्रियं दृष्ट्वा च विव्यथे
सर्वां च पृथिवीं चैव युधिष्ठिरवशानुगाम्। स्थिरोऽस्मि योऽहं जीवामि दुःखादेतद्ब्रवीमि ते
आवर्जिता इवाभान्ति नीपाश्चित्रककौकुराः। कारस्कारा लोहजङ्घा युधिष्ठिरनिवेशने
हिमवत्सागरानुपाः सर्वे रत्नाकरास्तथा। अन्त्याः सर्वे पर्युदस्ता युधिष्ठिरनिवेशने
ज्येष्ठोऽयमिति मां मत्वा श्रेष्ठश्चेति विशाम्पते। युधिष्ठिरेण सत्कृत्य युक्तो रत्नपरिग्रहे
उपस्थितानां रत्नानां श्रेष्ठानामर्घहारिणाम्। नादृश्यत परः पारो नापरस्तत्र भारत
न मे हस्तः समभवद्वसु तत्प्रतिगृह्णतः। अतिष्ठन्त मयि श्रान्ते गृग्य दूराहृतं वसु
कृतां बिन्दुसरोरत्नैर्मयेन स्फाटिकच्छदाम्। अपश्यं नलिनीं पूर्णामुदकस्येव भारत
वस्त्रमुत्कर्षति मयि प्राहसत्स वृकोदरः। शत्रोर्ऋद्धिविशेषेण विमूढ रत्तवर्जितम्