द्यूतप्रियश्च कौन्तेयो न च जानाति देवितुम्। आहूतश्चैष्यति व्यक्तं नित्यमेवाह्वयत्स्वयम्
नियतं तं विजेष्यामि कृत्वा तु कपटं विभो। आनयामि समृद्धिं तां दिव्यां चोपाह्वयस्व तम्
एवमुक्तः शकुनिना राजा दुर्योधनस्ततः। धृतराष्ट्रमिदं वाक्यमपदान्तरमब्रवीत्
अयमुत्सहते राजञ्श्रियमाहर्तुमक्षवित्। द्यूतेन पाण्डुपुत्रस्य तदनुज्ञातुमर्हसि
क्षत्ता मन्त्री महाप्राज्ञः स्थितो यस्यास्मि शासने। तेन सङ्गम्य वेत्स्यामि कार्यस्यास्य विनिश्चयम्
स हि धर्मं पुरस्कृत्य दीर्घदर्शी परं हितम्। उभयोटः पक्षयोर्युक्तं वक्ष्यत्यर्थविनिश्चयम्
निवर्तयिष्यति त्वाऽसौ यदि क्षत्ता समेष्यति। निवृत्ते त्वयि राजेन्द्र मरिष्येऽहमसंशयम्
स त्वं मयि मृते राजन्विदुरेण सुखी भव। भोक्ष्यसे पृथिवीं कृत्स्नां किं मया त्वं करिष्यसि।। शम्पायन उवाच
आर्तवाक्यं तु तत्तस्य प्रणयोक्तं निशम्य सः। धृतराष्ट्रोऽब्रवीत्प्रेष्यन्दुर्योधनमते स्थितः
स्थूणासहस्रैर्बृहतीं शतद्वारां सभां मम। मनोरमां दर्शनीयामाशु कुर्वन्तुं शिल्पिनः
ततः संस्तीर्य रत्नैस्तां तक्ष्ण आनाय्य सर्वशः। सुकृतां सुप्रवेशां च निवेदयत मेऽशनैः
दूर्योधनस्य शान्त्यर्थमिति निश्चित्य भूमिपः। धृतराष्ट्रो महाराज प्राहिणोद्विदुराय वै
अपृष्ट्वा विदुरं स्वस्यन नासीत्कश्चिद्विनिश्चयः। द्यूते दोषांश्च जानन्स पुत्रस्नेहादकृष्यत
तच्छ्रुत्वा विदुरो धीमान्कलिद्वारमुपस्थितम्। विनाशमुखमुत्पन्नं धृतराष्ट्रमुपाद्रवत्
सोऽभिगम्य महात्मानं भ्राता भ्रातरमग्रजम्। मूर्ध्ना प्रणम्य चरणाविदं वचनमब्रवीत्
नाभिनन्दामि ते राजन्व्यवसायमिमं प्रभो। पुत्रैर्भेदो यथा न स्थाद्द्यूतहेतोस्तथा कुरु
क्षत्तः पुत्रेषु पुत्रैर्मे कलहो न भविष्यति। यदि देवाः प्रसादं नः करिष्यन्ति न संशयः
अशुभं वा शुभं वापि हितं वा यदि वाऽहितम्
मयि सन्निहिते द्रोणे भीष्मे त्वयि च भारत। अनयो दैवविहितो न कथञ्चिद्भविष्यति
गच्छ त्वं रथमास्थाय हयैर्वातसमैर्जवे। खाण्डवप्रस्थमद्यैव समानय युधिष्ठिरम्
न वाच्यो व्यवसायो मे विदुरैतद्ब्रवीमि ते। दैवमेव परं मन्ये येनैतदुपपद्यते
इत्युक्तो विदुरो धीमान्नेदमस्तीति चिन्तयन्। आपगेयं महाप्राज्ञमभ्यगच्छत्सुदुः खितः
कथं समभवद्द्यूतं भ्रातॄणां तन्महात्ययम्। यत्र तद्व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः
के च तत्र समास्तारा राजानो ब्रह्मवित्तम। के चैनमन्वमोदन्त के चैनं प्रत्यषेधयन्
विस्तरेणैतदिच्छामि कथ्यमानं त्वया द्विज। मूलं ह्येतद्विनाशस्य पृथिव्या द्विजसत्तम
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान्। आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्वविद्
एवमुक्तस्ततो राज्ञा व्यासशिष्यः प्रतापवान्। आचचक्षेऽथ यद्वृत्तं तत्सर्वं वेदतत्त्ववित्
विदुरस्य मतिं ज्ञात्वा धृतराष्ट्रोऽम्बिकासुतः। दुर्योधनमिदं वाक्यमुवाच विजने पुनः
अलं द्यूतेन गान्धारे विदुरो न प्रशंसति। न ह्यसौ सुमहाबुद्धिरहितं नो वदिष्यति
हितं हि परमं मन्ये विदुरो यत्प्रभाषते। क्रियतां पुत्र तत्सर्वमेतन्मन्ये हितं तव