ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः। त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्। त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम्
यथैव मधु शक्राय धारयन्त्यमरस्त्रियटः। तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः
शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान्। शक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम्
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत्। गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ। त्तरं तु न गच्छन्ति विना तात पतत्रिणः। तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम्
कृतां बैन्दुसरै रत्नैर्मयेन स्फाटिकच्छदाम्। अपश्यं नलिनीं पूर्णामुदकस्येव भारत
उत्कर्षन्तं च वासश्च प्राहसन्मां वृकोदरः। किङ्कराश्च सभापाला जहसुर्भरतर्षभ
पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम्। तत्र त्म यदि शक्तः स्यां घातयेयं वृकोदरम्
सपत्नेनापहासो हि स मां दहति भारत
तत्र स्फाटिकतोयां हि स्फाटिकाम्बुजशोभिताम्। सभां पुष्करिणीं मत्वा पतितोऽस्मि नराधिप
तत्र मामहसद्भीमः सह पार्थेन सस्वरम्। द्रौपदी चसह स्त्रीभिः पातयन्ती मनो मम
क्लिन्नवस्त्रस्य च जले किङ्करा राजचोदिताः। ददुर्वासांसि मेऽन्यानि तच्च दुःखतरं मम
अस्तम्भा इव तिष्ठन्ति स्तम्भा इव सहस्रशः। सोहं तत्राहतो राजन्स्फटिकाभ्यन्तरे विभो
अद्वारेण विनिर्गच्छन्द्वारसंस्थानरूपिणा। अभिहत्य शिलां भूयो ललाटेनास्मि विक्षतः
आमृशन्निव तां दृष्ट्वा मार्गान्तरमुपाविशम्। इदं द्वारमिदं राजन्नद्वारमिति मां प्रति। अद्भुतं प्रहसन्वाक्यं बभाषे स वृकोदरः
स्त्रियश्च तत्र मां दृष्ट्वा जहसुस्तादृशं नृप। सर्वं हासकरं तेषां सदस्यानां नरर्षभ
न श्रुतानि न दृष्टानि यानि रत्नान मे क्वचित्। तानि मे तत्र दृष्टानि तेन तप्तोस्मि दुःखितः
हुताशनं प्रवेक्ष्यामि प्रवेक्ष्यामि महोदधिम्। सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते
इदं चाद्भुतमत्रासीत्तन्मे निगदतः शृणु
पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां सदा। स्थापितस्तत्र सञ्ज्ञार्थं शङ्खो ध्मायति नित्यसः
मुहुर्मुहुः प्रणदतस्तस्य शङ्खस्य भारत। अनिशं शब्दमश्रौषं ततो रोमाणि मेऽहृषन्
पार्थिवैर्बहुभिः कीर्णमुपस्थानं दिदृक्षुभिः। अशोभत महाराज नक्षत्रैर्द्यैरिवामला
सर्वरत्नान्युपादाय पार्थिवा वै जनेश्वर। ज्ञे तस्य महाराज पाण्डुपुत्रस्य धीमतः
वैश्या इव महीपाला द्विजातिपरिवेषकाः। न सा श्रीर्देवराजस्य यमस्य वरुणस्य च। गुह्यकाधिपतेर्वापि या श्री राजन्युधिष्ठिरे
तां दृष्ट्वा पाण्डुपुत्रस्य श्रियं परमिक्रामहम्। शान्तिं न परिगच्छामि दह्यमानेन चेतसा
अप्राप्य पाण्डवैश्वर्यं शमो मम न विद्यते। अरीन्बाणैः शाययिष्ये शयिष्ये वा हतः परैः
एतादृशस्य मे किं तु जीवितेन परन्तप। वर्धन्ते पाण्डवा राजन्वयं हि स्थितवृद्धयः
यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे। तस्याटः प्राप्तावुपायं मे शृणु सत्यपराक्रम
अहमक्षेष्वभिज्ञोऽस्मि पृथिव्यामपि भारत। हृदयज्ञः पणज्ञश्च विशेषज्ञश्च देवने