देवनामिव ते सर्वं वाचि बद्धं न संशयः। स दीन इव दुर्धर्ष कस्माच्छोचसि पुत्रक
मात्रा पित्रा च पुत्रस्य यद्वै कार्यं परं स्मृतम्। प्राप्तस्त्वमसि तत्तात निखिलां नः कुलश्रियम्
उपस्थितः सर्वकामैस्त्रिदिवे वासवो यथा। विविधैरन्नपानैश्च प्रवरैः किं नु शोचसि
निरुक्तं निगमं छन्दः षडङ्गान्यस्त्रशास्त्रवान्। अधीती कृतविद्यस्त्वं दशव्याकरणैः कृपात्
हलायुधात्कृपाद्द्रोणादस्त्रविद्यामधीतवान्। भ्राताज्येष्ठः स्थितो राज्ये किमु शोचसि पुत्रक
पृथग्जनैरलभ्यं यदशनाच्छादनं बहु। प्रभुः सन्भुञ्जसे पुत्र संस्तुतः सूतमागधैः
तस्य ते विदितप्रज्ञ शोकमूलमिदं कथम्। लोकेस्मिञ्ज्येष्ठभागन्यस्तन्ममाचक्ष्व पृच्छतः
तस्य तद्वचनं श्रुत्वा मन्दः क्रोधवशानुगः। पितरं प्रत्युवाचेदं स्वमतिं सम्प्रकाशयन्
अश्नाम्याच्छादये चाहं यथा कुपुरुषस्तथा। अमर्षं धारये चोग्रं निनीषुः कालपर्ययम्
अमर्षणः स्वाः प्रकृतीरभिभूय परं स्थितः। क्लेशान्मुमुक्षुः परजान्स वै पुरुष उच्यते
सन्तोषो वै श्रियं हन्ति ह्यभिमानं च भारत। अनुक्रोशभये चोभे यैर्वृतो नाश्नुते महत्
न मां प्रीणाति मद्भुक्तं श्रियं दृष्ट्वा युधिष्ठेरे। अतिज्वलन्तीं कौन्तेये विवर्णकरणीं मम
नृद्व्यतोत्मानं हीयमानं निशाम्य च। अदृश्यामपि कौन्तेय श्रियं पश्यन्निवोद्यताम्
तस्मादहं विवर्णश्च दीनश्च हरिमः कृशः। अष्टाशीतिसहस्राणि स्नातका गृहमेधिनः
त्रिंशद्दासीक एकैको यान्बिभर्ति युधिष्ठिरः। दशान्यानि सहस्राणि यतीनामूर्ध्वरेतसाम्। भुञ्जते रुक्मपात्रीभिर्युधिष्ठिरनिवेशने
कदलीमृगमोकानि कृष्णश्यामारुणानि च। काम्भोजः प्राहिणोत्तस्मै परार्ध्यानपि कम्बलान्। गजयोषिद्गवाश्वस्य शतशोऽथ सहस्रशः
शतं चोष्ट्रवामीनां शतानि विचरन्त्युत। राजन्या बलिमादाय समेता हि नृपक्षये
पृथग्विधानि रत्नान पार्थिवाः पृथिवीपते। आहरन्क्रतुमुख्येऽस्मिन्कुन्तीपुत्राय भूरिशः
न क्वचिद्धि मया तादृग्दृष्टपूर्वो न च श्रुतः। यादृग्धनागमो यज्ञे पाण्डुपुत्रस्य धीमतः
असत्यं चेदिदं सर्वं सञ्जयं प्रष्टुमर्हसि'। अपर्यन्तं धनौघं तं दृष्ट्वा शत्रोरहं नृप। शर्म नैवाभिगच्छामि चिन्तयानो विशाम्पते
ब्रह्मणा वाटधानाश्च गोमन्तः शतसङ्घशः। त्रिखर्वं बलिमादाय द्वारि तिष्ठन्ति वारिताः
कमण्डलूनुपादाय जातरूपमयाञ्शुभान्। त्रैखर्वाः प्रतिवेद्यास्मै लेभिरेऽथ प्रवेशनम्
यथैव मधु शक्राय धारयन्त्यमरस्त्रियटः। तदस्मै कांस्यमाहार्षीद्वारुणं कलशोदधिः
शङ्खप्रवरमादाय वासुदेवोऽभिषिक्तवान्। शक्यं रुक्मसहस्रस्य बहुरत्नविभूषितम्
दृष्ट्वा च मम तत्सर्वं ज्वररूपमिवाभवत्। गृहीत्वा तत्तु गच्छन्ति समुद्रौ पूर्वदक्षिणौ
तथैव पश्चिमं यान्ति गृहीत्वा भरतर्षभ। त्तरं तु न गच्छन्ति विना तात पतत्रिणः। तत्र गत्वाऽर्जुनो दण्डमाजहारामितं धनम्
कृतां बैन्दुसरै रत्नैर्मयेन स्फाटिकच्छदाम्। अपश्यं नलिनीं पूर्णामुदकस्येव भारत
उत्कर्षन्तं च वासश्च प्राहसन्मां वृकोदरः। किङ्कराश्च सभापाला जहसुर्भरतर्षभ
पित्रोरर्थे विशेषेण प्रावृण्वं तत्र जीवितम्। तत्र त्म यदि शक्तः स्यां घातयेयं वृकोदरम्
सपत्नेनापहासो हि स मां दहति भारत