तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः। हन्ति तां सभां भीमास्तत्र का परिदेवना
यच्चासहायतां राजन्नुक्तवानसि भारत। तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः
द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान्। मूतपुत्रश्च राधेयो दृढधन्वा महारथः
स एकः समरे सर्वान्पाण्डवान्सहसोमकान्। विजेष्यति महाबाहो किं सहायैः करिष्यसि
भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः। जयद्रथश्च बलावान्सोमदत्तस्तथैव च
अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः। एतैस्त्वं सहितः सर्वैर्जय कृत्स्नं वसुन्दराम्
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः। एतानहं विजेष्यामि यदि त्वमनुमन्यसे
एतेषु विजितेष्वद्य भविष्यति मही मम। सर्वे च पृथिवीपालाः सभा सा च महाधना
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः। नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः
नैते युधि पराजेतुं शक्या देवगणैरपि। महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः
अहं तु तद्विजानामि विजेतुं येन शक्यते। युधिष्ठिरं स्वयं राजंस्तन्निबोध जुषस्व च
अप्रमादेन सुहृदामन्येषां च महात्मनाम्। यदि शक्या विजेतुं ते तन्ममाचक्ष्व मातुल
द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम्। समाहूतश्च राजेन्द्रो न शक्ष्यति तिवर्तितुम्
देवने कुशलश्चाहं न मेऽस्ति सदृशो भुवि। त्रिषु लोकेषु कौरव्य तं त्वं द्यूते समाह्वय
तस्याक्षकुशलो राजन्नादास्येऽहमसंशयम्। राज्यं श्रियं च तां दीप्तां त्वदर्थं पुरुषर्षभ
इदं तु सर्वं त्वं राज्ञे दुर्योधन निवेदय। अनुज्ञातस्तु ते पित्रा विजेष्ये तान्न संशयः
त्वमेव करुमुख्याय धृतराष्ट्राय सौबल। निवेदय यथान्यायं नाहं शक्ष्ये निवेदितुम्
अनुभूय तु राज्ञस्तं राजसूयं सुदुर्मतिः। `युधिष्ठिरस्य शकुनिर्दुर्योधसुसंयुतः
विवेश हास्तिनपुरं दुर्योधनमतेन सः। वाढमित्येव शकुनिर्दृढं हृदि चकार ह
अस्वस्थतां चतां दृष्ट्वा धार्तराष्ट्रस्य पापकृत्। भारतानां च दुष्टात्मा क्षयाय हि नृपक्षयः
प्रियकृन्मतमाज्ञाय पूर्वं दुर्योधनस्य तत्। प्रज्ञाचक्षुषमासीनं शकुनिः सौबलस्तदा
दुर्योधनवचः श्रुत्वा धृतराष्ट्रं जनाधिपम्। उपगम्य महाप्राज्ञं शकुनिर्वाक्यमब्रवीत्
दुर्योधनो महाराज विवर्णो हरिणः कृशः। दीनश्चिन्तापरश्चैव तं विद्धि मनुजाधिप
न वै परीक्षसे सम्यगसह्यं शत्रुसंभवम्। ज्येष्ठपुत्रस्य हृच्छोकं किमर्थं नावबुध्यसे
एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः। दुर्योधनं समाहूयं इदं वचनमब्रवीत्
दुर्योधन कृतोमूलं भृशमार्तोऽसि पुत्रक। श्रोतव्यश्चेन्मया सोऽर्थो ब्रूहि मे कुरुनन्दन
अयं त्वां शकुनिः प्राह विवर्णं हरिमं कृशम्। चिन्तयंश्च न पश्यामि शोकस्य तव सम्भवम्
ऐश्वर्यं हि महत्पुत्र त्वयि सर्वं प्रतिष्ठितम्। भ्रातरः सुहृदश्चैव नाचरन्ति तवाप्रियम्
आच्छादयसि प्रावारानश्नासि पिशितौदनम्। आजानेया वहन्त्यश्वाः केनासि हरिणः कृशः
शयनानि महार्हाणि योषितश्च मनोरमाः। गुणवन्ति च वेश्मानि विहाराश्च यथासुखम्