तथाहि रत्नन्यादाय विविधानि नृपा नृपम्। उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः
श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे। अमर्षवशमापन्नो दह्यामि न तथोचितः
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्। अपो वापि प्रवेक्ष्यामिन हि शक्ष्यामि जीवितुम्
को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान्। सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि। योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्। यज्ञं च तादृशं दृष्ट्वा मादृशः को न संञ्ज्वरेत्
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्। सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये
दैवमेव परं मन्ये पौरुषं च निरर्थकम्। दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल। तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम्
न दैवं परं मन्ये पौरुषं च निरर्थकम्। धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः। कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्। रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्। भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा
विधानं विविधाकारं परं तेषां विधानतः। अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा
आरब्धा हि महाराज पुनः पुनररिन्दम। विमुक्ताश्च नरव्याघ्रा भगधेयपुरस्कृताः। `उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह। सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान्
लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते। विवृद्धस्तेजसा तेषां तत्र का परिदेवना
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी। लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम्
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः। कृता वशे महीपालास्तत्र का परिदेवना
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्। सभां तां कारयामास सव्यसाची परन्तपः
तेन चैव मयेनोक्ताः किङ्करा नाम राक्षसाः। हन्ति तां सभां भीमास्तत्र का परिदेवना
यच्चासहायतां राजन्नुक्तवानसि भारत। तन्मिथ्या भ्रातरो हीमे तव सर्वे वशानुगाः
द्रोणस्तव महेष्वासः सह पुत्रेण वीर्यवान्। मूतपुत्रश्च राधेयो दृढधन्वा महारथः
स एकः समरे सर्वान्पाण्डवान्सहसोमकान्। विजेष्यति महाबाहो किं सहायैः करिष्यसि
भीष्मश्च पुरुषव्याघ्रो गौतमश्च महारथः। जयद्रथश्च बलावान्सोमदत्तस्तथैव च
अहं च सह सोदर्यैः सौमदत्तिश्च पार्थिवः। एतैस्त्वं सहितः सर्वैर्जय कृत्स्नं वसुन्दराम्
त्वया च सहितो राजन्नेतैश्चान्यैर्महारथैः। एतानहं विजेष्यामि यदि त्वमनुमन्यसे
एतेषु विजितेष्वद्य भविष्यति मही मम। सर्वे च पृथिवीपालाः सभा सा च महाधना
धनञ्जयो वासुदेवो भीमसेनो युधिष्ठिरः। नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः
नैते युधि पराजेतुं शक्या देवगणैरपि। महारथा महेष्वासाः कृतास्त्रा युद्धदुर्मदाः