महिमानं परं चापि पाण्डवानां महात्मनाम्। दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत
स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत्। श्रियं च तामनुपमां धर्मराजस्य धीमतः
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा। नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत। दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्। जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल। यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः
अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम्। शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम्
पश्य सात्वतमुख्येन शिशुपालो निपातितः। न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना। क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति
वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम्। सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम्
तथाहि रत्नन्यादाय विविधानि नृपा नृपम्। उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः
श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे। अमर्षवशमापन्नो दह्यामि न तथोचितः
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्। अपो वापि प्रवेक्ष्यामिन हि शक्ष्यामि जीवितुम्
को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान्। सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि। योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्। यज्ञं च तादृशं दृष्ट्वा मादृशः को न संञ्ज्वरेत्
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्। सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये
दैवमेव परं मन्ये पौरुषं च निरर्थकम्। दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल। तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम्
न दैवं परं मन्ये पौरुषं च निरर्थकम्। धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः। कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः
सोऽहं श्रियं च तां दृष्ट्वा सभां तां च तथाविधाम्। रक्षिभिश्चावहासं तं परितप्ये यथाऽग्निना
अमर्षं च समाविष्टं धृतराष्ट्रे निवेदय
दुर्योधन न तेऽमर्षः कार्यः प्रति युधिष्ठिरम्। भागधेयानि हि स्वानि पाण्डवा भुञ्जते सदा
विधानं विविधाकारं परं तेषां विधानतः। अनेकैरभ्युपायैश्च त्वया न शकिताः पुरा
आरब्धा हि महाराज पुनः पुनररिन्दम। विमुक्ताश्च नरव्याघ्रा भगधेयपुरस्कृताः। `उत्साहवन्तः पुरुषा नावसीदन्ति कर्मसु
तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह। सहायाः पृथिवीपाला वासुदेवश्च वीर्यवान्
लब्धश्चानभिभूतार्थैः पित्र्योंशः पृथिवीपते। विवृद्धस्तेजसा तेषां तत्र का परिदेवना
धनञ्जयेन गाण्डीवमक्षय्यौ च महेषुधी। लब्धान्यस्त्राणि दिव्यानि तोषयित्वा हुताशनम्
तेन कार्मुकमुख्येन बाहुवीर्येण चात्मनः। कृता वशे महीपालास्तत्र का परिदेवना
अग्निदाहान्मयं चापि मोक्षयित्वा स दानवम्। सभां तां कारयामास सव्यसाची परन्तपः