वासांसि च शुभान्यस्मै प्रददू राजशासनात्। तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः
अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तदा। नामर्षयत्ततस्तेषामवहासममर्षणः
आकारं रक्षमाणस्तु न स तान्समुदैक्षत। पुनर्वसनमुत्क्षिप्य प्रतिरिष्यन्निव स्थलम्
आरुरोह ततः सर्वे जहसुश्च पुनर्जनाः। द्वारं तु पिहिताकारं स्फाटिकं प्रेक्ष्य भूमिपः। प्रविशन्नाहतो मूर्ध्नि व्याघूर्णित इव स्थितः
तादृशं च परं द्वारं स्फाटिकोरुकवाटकम्। विघट्टयन्कराभ्यां तु निष्क्रम्याग्रे पपात हा
द्वारं तु वितताकारं समापेदे पुनश्च सः। तद्वृत्तं चेति मन्वानो द्वारस्थानादुपारमत्
एवं प्रलम्भान्विविधान्प्राप्य तत्र विशाम्पते। पाण्डवेयाभ्यनुज्ञातस्ततो दुर्योधनो नृपः
अपहृष्टेन मनसा राजसूये महाक्रतौ। प्रेक्ष्य तामद्भुतामृद्धिं जगाम गजसाह्वयम्
पाण्डवश्रीप्रतप्तस्य ध्यायमानस्य गच्छतः। दुर्योधनस्य नृपतेः पापा मतिरजायत
पार्थान्सुमनसो दृष्ट्वा पार्थिवांश्च वशानुगान्। कृत्स्नं चापि हितं लोकमाकुमारं कुरूद्वह
महिमानं परं चापि पाण्डवानां महात्मनाम्। दूर्योधनो धार्तराष्ट्रो विवर्णः समपद्यत
स तु गच्छन्ननेकाग्नः सभामेकोऽन्वचिन्तयत्। श्रियं च तामनुपमां धर्मराजस्य धीमतः
प्रमत्तो धृतराष्ट्रस्य पुत्रो दुर्योधनस्तदा। नाभ्यभाषत्सुबलजं भाषमाणं पुनः पुनः
अनेकाग्रं तु तं दृष्ट्वा शकुनिः प्रत्यभाषत। दुर्योधन कृतोमूलं निःश्वसन्निव गच्छसि
दृष्ट्वेमां पृथिवीं कृत्स्नां युधिष्ठिरवशानुगाम्। जितामस्त्रप्रतापेन श्वेताश्वस्य महात्मनः
तं च यज्ञं तथाभूतं दृष्ट्वा पार्थस्य मातुल। यथा शक्रस्य देवेषु तथाभूतं महाद्युतेः
अमर्षेण तु सम्पूर्णो दह्यमानो दिवानिशम्। शुचिशुक्रागमे काले शुष्ये तोयमिवाल्पकम्
पश्य सात्वतमुख्येन शिशुपालो निपातितः। न च तत्र पुमानासीत्कश्चित्तस्य पदानुगः
दह्यमाना हि राजानः पाण्डवोत्थेन वह्निना। क्षान्तवन्तोऽपराधं ते को हि तत्क्षन्तुमर्हति
वासुदेवेन तत्कर्म यथाऽयुक्तं महत्कृतम्। सिद्धं च पाण्डुपुत्राणां प्रतापेन महात्मनाम्
तथाहि रत्नन्यादाय विविधानि नृपा नृपम्। उपातिष्ठन्त कौन्येयं वैश्या इव करप्रदाः
श्रियं तथागतं दृष्ट्वा ज्वलन्तीमिव पाण्डवे। अमर्षवशमापन्नो दह्यामि न तथोचितः
वह्निमेव प्रवेक्ष्यामि भक्षयिष्यामि वा विषम्। अपो वापि प्रवेक्ष्यामिन हि शक्ष्यामि जीवितुम्
को हि नाम पुमांल्लोके मर्षयिष्यति सत्ववान्। सपत्नानृद्ध्यतो दृष्ट्वा हीनमात्मानमेव च
सोऽहं न स्त्री न चाप्यस्त्री न पुमान्नापुमानपि। योऽहं तां मर्षयाम्यद्य तादृशीं श्रियमागताम्
ईश्वरत्वं पृथिव्याश्च वसुमत्तां च तादृशीम्। यज्ञं च तादृशं दृष्ट्वा मादृशः को न संञ्ज्वरेत्
अशक्तश्चैक एवाहं तामाहर्तुं नृपश्रियम्। सहायांश्च न पश्यामि तेन मृत्युं विचिन्तये
दैवमेव परं मन्ये पौरुषं च निरर्थकम्। दृष्ट्वा कुन्तीसुते शुद्धां श्रियं तामहतां तथा
कृतो यत्नो मया पूर्वं विनाशे तस्य सौबल। तच्च सर्वमतिक्रम्य संवृद्धोऽप्स्विव पङ्गजम्
न दैवं परं मन्ये पौरुषं च निरर्थकम्। धार्तराष्ट्राश्च हीयन्ते पार्था वर्धन्ति नित्यशः। कृष्णस्तु सुमनास्तेषां विवर्धयति सम्पदः