प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके
तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः। अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः। आरेभिरे महत्कर्म तदा शक्रभयंकरम्
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्। मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु
कामवीर्यः कामगमो देवराजभयप्रदः। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः। तपसो नः फलेनाद्य दारुणः संभवित्विति
तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः। जगाम शरणं तत्र कश्यपं संशितव्रतम्
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः। वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत
केन कामेन चारब्धं भवद्भिर्होमकर्म च। याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे
अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना। ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता
तद्विघातार्थमारम्भो विधिवत्तस्य कश्यप
एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः। तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः
अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः। इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः
न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः। भवतां हि न मिथ्याऽयं संकल्पो वै चिकीर्षितः
भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान्। प्रसादः क्रियतामस्य देवराजस्य याचतः
एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः। प्रत्यूचुरभिसंपूज्य मुनिश्रेष्ठं प्रजापतिम्
इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते। अपत्यार्थं समारम्भो भवतश्चायमीप्सितः
तदिदं सफलं कर्म त्वयैव प्रतिगृह्यताम्। तथा चैवं विधत्स्वात्र यथा श्रेयोऽनुपश्यसि
एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा। विनता नाम कल्याणी पुत्रकामा यशस्विनी
तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः। उपचक्राम भर्तारं तामुवाचाथ कश्यपः
आरम्भः सफलो देवि भविता यस्त्वयेप्सितः। जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ
तपसा वालखिल्यानां मम संकल्पतस्तथा। भविष्यतो महाभागौ पुत्रौ त्रैलोक्यपूजितौ
उवाच चैनां भगवान्कश्यपः पुनरेव ह। धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः
एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति। लोकसंभावितो वीरः कामरूपो विहङ्गमः
शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः। त्वत्सहायौ महावीर्यौ भ्रातरौ ते भविष्यतः
नैताभ्यां भविता दोषः सकाशात्ते पुरंदर। व्येतु ते शक्र संतापस्त्वमेवेन्द्रो भविष्यसि
न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः। न चावमान्या दर्पात्ते वाग्वज्रा भृशकोपनाः
एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम्। विनता चापि सिद्धार्था बभूव मुदिता तथा
जनयामास पुत्रौ द्वावरुणं गरुडं तथा। विकलाङ्गोऽरुणस्तत्र भास्करस्य पुरःसरः
पतत्त्रीणां च गरुडमिन्द्रत्वेनाभ्यषिञ्चत। तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन