त्वामेकं कारणं कृत्वा कालेन भरतर्षभ। समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत। दुर्योधनापराधेन भीमार्जुनबलेन च
स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन्काल उपस्थिते। तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर
यान्तं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम्। नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम्
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम्। हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम्
कैलासकूडप्रतिमे वृषभेऽवस्थितं शिवम्। निरीक्षमाणं सततं पितृराजाश्रितां दिशम्
एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते। मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति। अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय
एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ। कृष्णद्वैपायनो व्यासः सह शिष्यैः सहानुगैः
गते पितामहे राजा चिन्ताशोकसमन्वितः। निः श्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन्
कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम्। अवश्यमेव भविता यदुक्तं परमर्षिणा
ततोऽब्रवीन्महातेजाः सर्वान्भ्रातॄन्युधिष्ठिरः। श्रुतं वै पुरुषव्याघ्रा यन्मां द्वैपायनोऽब्रवीत्
तदा तद्वचनं श्रुत्वा मरणे निश्चिता मतिः। सर्वक्षत्रस्य निधने यद्यहं हेतुरीप्सितः
कालेन निर्मितस्तात को ममार्थोऽस्ति जीवतः। एवं ब्रुवन्तं राजानं फाल्गुनः प्रत्यभाषत
मा राजन्कश्मलं घोरं प्रविशो बुद्धिनाशनम्। सम्प्रधार्य महाराज यत्क्षमं तत्समाचर
ततोऽब्रवीत्सत्यधृतिर्भ्रातॄन्सर्वान्युधिष्ठिरः। द्वैपायनस्य वचनं तत्रैव समचिन्तयत्
अद्यप्रभृति भद्रं वः प्रतिज्ञां मे निबोधत। त्रयोदश समास्तात को ममार्थो ऽस्ति जीवतः
न प्रवक्ष्यामि परुषं भ्रातॄनन्यांश्च पार्थिवान्। स्थितो निदेशे ज्ञातीनां योक्ष्ये तत्सुमुदाहरन्
एवं मे वर्तमानस्य स्वसुतेऽष्वितरेषु च। भेदो न भविता लोके भेदमूलो हि विग्रहः
विग्रहं दूरतो रक्षन्प्रियाण्येव समाचरन्। वाच्यतां न गमिष्यामि लोकेषु मनुजर्षभाः
भ्रातृर्ज्येष्ठस्य वचनं पाण्डवाः संनिशम्य तत। तमेव समवर्तन्त धर्मराजहिते रताः
संसत्सु समयं कृत्वा धर्मराड्भ्रातृभिः सह। पितॄंस्तर्प्य यथान्यायं देवताश्च विशाम्पते
कृतमङ्गलकल्यामो भ्रातृभिः पिरवारितः। गतेषु क्षत्रियेन्द्रेषु सर्वेषु भरतर्षभ
युधिष्ठिरः सहामात्यः प्रविवेश पुरोत्तमम्। दुर्योधनो महाराज शकुनिश्चापि सौबलः। सभायां समणीयायां तत्रैवास्ते नराधिप
वसन्दुर्योधनस्तस्यां सभायां पुरुषर्षभ। शनैर्ददर्श तां सर्वां सभां शकुनिना सह
तस्यां दिव्यानभिप्रायान्ददर्श कुरुनन्दनः। न दृष्टपूर्वा ये तेन नगरे नागसाह्वये
स कदाचित्सभामध्ये धार्तराष्ट्रो महीपतिः। स्फाटिकं स्थलमासाद्य जलमित्यभिशङ्कया
स्ववस्त्रोत्कर्षणं राजा कृतवान्बुद्धिमोहितः। दुर्मना विमुखश्चैव परिचक्राम तां सभाम्
ततः स्थले निपतितो दुर्मना व्रीडितो नृपः। निः श्वसन्विमुखश्चापि परिचक्राम तां सभाम्
ततः स्फाटिकतोयां वै स्फाटिकाम्बुजशोभिताम्। वापीं मत्वा स्थलमिव सवासाः प्रापतञ्जले
जले निपतितं दृष्ट्वा भीमसेनो महाबलः। जहास जहसुश्चैव किङ्कराश्च सुयोधनम्