तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः। भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम्
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः। अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते। पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः। कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति। गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप
महादुर्योधनो राजा शकुनिश्चापि सौबलः। `सूतपुत्रश्च गधेयः सह दुःशासनादिभिः
सर्वकामगुणोपेतैरर्च्यमानास्तु भारत'। तस्यां सभायां दिव्यायामवसंस्तत्र पाण्डवैः
अनुसंसार्य नृपतीन्पाण्डवाः पाण्डवाग्रजम्। अभिजग्मुर्महेष्वासा धर्मराजं युधिष्ठिरम्
सोऽनुमेने महाबाहुर्भातॄंश्च सुहृदस्तथा'। शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत
सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः। पाद्येनासनदानेन पितामहमपूजयत्
अथोपविश्य भगवान्काञ्चने परमासने। आस्यतामिति चोवाच धर्मराजं युधिष्ठिरम्
अथोपविष्टं राजानं भ्रातृभिः परिवारितम्। उवाच भगवान्व्यासस्तत्तद्वाक्यविशारदः
दिष्ट्या वर्धसि कौन्तेय साम्राज्यं प्राप्य दुर्लभम्। वर्धिताः कुरवः सर्वे त्वया कुरुकुलोद्वह
आपृच्छे त्वां गमिष्यामि पूजितोऽस्मि विशाम्पते। एवमुक्तः स कृष्णेन धर्मराजो युधिष्ठिरः
अभिवाद्योपसङ्गृह्य पितामहमथाब्रवीत्
संशयो द्विपदां श्रेष्ठ ममोत्पन्नः सुदुर्लभः। तस्य नान्योऽस्ति वक्ता वै त्वामृते द्विजपुङ्गव
उत्पातांस्त्रिविधान्प्राह नारदो भगवानृषिः। दिव्यांश्चैवान्तरिक्षांश्च पार्थिवांश्च पितामह
सुमहच्च फलं तेषां भवितेति न संशयः'। अपि चैद्यस्य पतनाच्छान्तमौत्पातिकं महत्
राज्ञस्तु वचनं श्रुत्वा पराशरसुतः प्रभुः। कृष्णद्वैपायनो व्यास इदं वचनमब्रवीत्
त्रयोदश समा राजन्नुत्पातानां फलं महत्। सर्वक्षत्रविनाशाय भविष्यति विशाम्पते
त्वामेकं कारणं कृत्वा कालेन भरतर्षभ। समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत। दुर्योधनापराधेन भीमार्जुनबलेन च
स्वप्नं द्रक्ष्यसि राजेन्द्र तस्मिन्काल उपस्थिते। तत्तेऽहं सम्प्रवक्ष्यामि तन्निबोध युधिष्ठिर
यान्तं द्रक्ष्यसि राजेन्द्र क्षपान्ते त्वं वृषध्वजम्। नीलकण्ठं भवं स्थाणुं कपालिं त्रिपुरान्तकम्
उग्रं रुद्रं पशुपतिं महादेवमुमापतिम्। हरं शर्वं वृषं शूलं पिनाकिं कृत्तिवाससम्
कैलासकूडप्रतिमे वृषभेऽवस्थितं शिवम्। निरीक्षमाणं सततं पितृराजाश्रितां दिशम्
एवमीदृशकं स्वप्नं द्रक्ष्यसि त्वं विशाम्पते। मा तत्कृते ह्यनुध्याहि कालो हि दुरतिक्रमः
स्वस्ति तेऽस्तु गमिष्यामि कैलासं पर्वतं प्रति। अप्रमत्तः स्थितो दान्तः पृथिवीं परिपालय
एवमुक्त्वा स भगवान्कैलासं पर्वतं ययौ। कृष्णद्वैपायनो व्यासः सह शिष्यैः सहानुगैः
गते पितामहे राजा चिन्ताशोकसमन्वितः। निः श्वसन्नुष्णमसकृत्तमेवार्थं विचिन्तयन्
कथं तु दैवं शक्येत पौरुषेण प्रबाधितुम्। अवश्यमेव भविता यदुक्तं परमर्षिणा