यथार्हं पूज्य नृपतीन्भ्रातॄन्सर्वानुवाच ह। राजानः सर्व एवैते प्रीत्याऽस्मान्प्तमुपागताः
प्रस्थिताः स्वानि राष्ट्राणि मामापृच्छय परन्तपाः। अनुव्रजत भद्रं वो विषयान्तं नृपोत्तमान्
भ्रातुर्वचनमाज्ञाय पाण्डवा धर्मचारिणः। यथार्हं नृपतीन्सर्वानेकैकं समनुव्रजन्
विरायटमन्वायात्तूर्णं धृष्टह्युम्नः प्रतापवान्। धनञ्जयो यज्ञसेनं महात्मानं महारथम्
भीष्मं च धृतराष्ट्रं च भीमसेनो महाबलः। द्रोणं तु ससुतं वीरं सहदेवो युधां पतिः
नकुलः सुबलं राजन्सहपुत्रं समन्वयात्। द्रौपदेयाः ससौभद्राः पार्वतीयान्महारथान्
अन्वगच्छंस्तथैवान्यान्क्षत्रियान्क्षत्रियर्षभाः। एवं सुपूजिताः सर्वे जग्मुर्विप्राः सहस्रशः
गतेषु पार्थिवेन्द्रेषु सर्वेषु ब्राह्मणेषु च। युधिष्ठिरमुवाचेदं वासुदेवः प्रतापवान्
आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन। राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्राप्तवानसि
तमुवाचैवमुक्तस्तु धर्मराजो जनार्दनम्। तव प्रसादाद्गोविन्द प्राप्तः क्रतुवरो मया
क्षत्रं समग्रमपि च त्वत्प्रसादाद्वशे स्थितम्। उपादाय बलिं मुख्यं मामेव समुपस्थितम्
कथं त्वद्गमनार्थं मे वाणी वितरतेऽनघ
न ह्यहं त्वामृते वीरं रतिं प्राप्नोमि कर्हचित्। अवश्यं चैव गन्तव्या भवता द्वारका पुरी
एवमुक्तः स धर्मात्मा युधिष्ठिरसहायवान्। अभिगम्याब्रवीत्प्रीतः पृथां पृथुयशा हरिः
साम्राज्यं समनुप्राप्ताः पुत्रास्तेऽद्य पितृष्वसः। सिद्धार्था वसुमन्तश्च सा त्वं प्रीतिमवाप्नुहि
अनुज्ञातस्त्वया चाहं द्वारकां गन्तुमुत्सहे। सुभद्रां द्रौपदीं चैव सभाजयत केशवः
निष्क्रम्यान्तः पुरात्तस्माद्युधिष्ठिरसहायवान्। स्नातश्च कृतजप्यश्च ब्राह्मणान्स्वस्ति वाच्य च
ततो मेघवपुः प्रग्व्यं स्यन्दनं च सुकल्पितम्। योजयित्वा महाबाहुर्दारुकः समुपस्थितः
उपस्थितं रथं दृष्ट्वा तार्क्ष्यप्रवरकेतनम्। प्रदक्षिणमुपावृत्य समारुह्य महामनाः
प्रययौ पुण्डरीकाक्षस्ततो द्वारवतीं पुरीम्
तं पद्भ्यामनुवव्राज धर्मराजो युधिष्ठिरः। भ्रातृभिः सहितः श्रीमान्वासुदेवं महाबलम्
ततो मुहूर्तं सङ्गृह्य स्यन्दनप्रवरं हरिः। अब्रवीत्पुण्डरीकाक्षः कुन्तीपुत्रं युधिष्ठिरम्
अप्रमत्तः स्थितो नित्यं प्रजाः पाहि विशाम्पते। पर्जन्यमिव भूतानि महाद्रुममिव द्विजाः
बान्धवास्त्वोपजीवन्तु सहस्राक्षमिवामराः। कृत्वा परस्परेणैव संवादं कृष्णपाण्डवौ
अन्योन्यं समनुज्ञाप्य जग्मतुः स्वगृहान्प्रति। गते द्वारवतीं कृष्णे सात्वतप्रवरे नृप
महादुर्योधनो राजा शकुनिश्चापि सौबलः। `सूतपुत्रश्च गधेयः सह दुःशासनादिभिः
सर्वकामगुणोपेतैरर्च्यमानास्तु भारत'। तस्यां सभायां दिव्यायामवसंस्तत्र पाण्डवैः
अनुसंसार्य नृपतीन्पाण्डवाः पाण्डवाग्रजम्। अभिजग्मुर्महेष्वासा धर्मराजं युधिष्ठिरम्
सोऽनुमेने महाबाहुर्भातॄंश्च सुहृदस्तथा'। शिष्यैः परिवृतो व्यासः पुरस्तात्समपद्यत
सोऽभ्ययादासनात्तूर्णं भ्रातृभिः परिवारितः। पाद्येनासनदानेन पितामहमपूजयत्