ततो वै हेमयूपांश्च सर्वरत्नसमाचितान्। शोभार्थं कारयामास सहदेवो महाद्युतिः
ददृशुस्तोरणान्यत्र हेमतालमयानि च। स यज्ञस्तोरणैस्तैश्च ग्रहैर्द्योरिव सम्बभौ
तालानां तोरणैर्हैमैर्दान्तैरिव दिशागजैः। दिक्षु सर्वासु विन्यस्तैस्तेजोभिर्भास्करैर्यथा
सकिरीटैर्नृपैश्चैव शुशुभे तत्सदस्तदा। देवैर्दिव्यैश्च यक्षैश्च उरगैर्दिव्यमानुषैः
विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः। स राजसूयः शुशुभे धर्मराजस्य धीमतः
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः। देवैर्मुनिगणैर्यक्षैर्देवलोक इवापरः
स किम्पुरुषगीतैश्च किन्नरैरुपशोभितः। नारदश्च जगौ तत्र तुम्बुरुश्च महाद्युतिः
विश्वासुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः। रमयन्ति स्म तान्सर्वान्यज्ञकर्मान्तरेष्वथ
तत्र चाप्सरसः सर्वाः सुन्दर्यः प्रियदर्शनाः। ननृतुश्च जगुश्चात्र नित्यं कर्मान्तरेष्वथ
इतिहासपुराणानि आख्यानानि च सर्वशः। ऊचुर्वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्वथ
भेर्यश्च मुरजाश्चैव मड्डुका गोमुखाश्च ये। शृङ्गवंशाम्बुजा वीणाः श्रूयन्ते स्म सहस्रशः
लोकेऽस्मिन्सर्वविप्राश्च वैश्याः शूद्रा नृपादयः। सर्वे म्लेच्छाः सर्वगणास्त्वादिमध्यान्तजास्तथा
नानादेशसमुद्भूतैर्नानाजातिभिरागतैः। पर्याप्त इव लोकोऽयं युधिष्ठिरनिवेशने
भीष्मद्रोणादयः सर्वे कुरवः ससुयोधनाः। वृष्णयश्च समग्राश्च पाञ्चालाश्चापि सर्वशः
यज्ञेऽस्मिन्सर्वकर्माणि चक्रुर्दासा इव क्रतौ। एवं प्रवृत्तो यज्ञः स धर्मराजस्य धीमतः
शुशुभे च महाबाहो सोमस्येव क्रतुर्यथा। वस्त्राणि कम्बलांश्चैव प्रावारांश्चैव सर्वदा
निष्कहेमजभाण्डानि भूषणानि च सर्वशः। प्रददौ तत्र विप्राणां धर्मराजो युधिष्ठिरः
यानि तत्र महीपालैर्लब्धवान्भरतर्षभः। तानि सर्वाणि रत्नानि ब्राह्मणानां ददौ तदा
ततः स कुरुराजस्य सर्वकर्मसमृद्धिमान्। यज्ञः प्रीतिकरो राजन्संबभौ विपुलोत्सवः
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्। अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः
समापयामास च तं राजसूयं महाक्रतुम्। `कोटिसहस्रं प्रददौ ब्राह्मणानां महात्मनाम्
न करिष्यति तं लोके कश्चिदन्यो महीपतिः। याजकाः सर्वकामैश्च सततं ततृपुर्धनैः
ततश्चावभृथस्नातः स राजा पाण्डुनन्दनः। व्यासं धौम्यं वसिष्ठं च नारदं च महामुनिम्
सुमन्तु जैमिनिं पैलं वैशम्पायनमेव च। याज्ञवल्क्यं च कपिलं कपालं कौशिकं तथा। सर्वांश्च ऋत्विक्प्रवरान्पूजयामास सत्कृतान्
युष्मत्प्रसादात्प्राप्तोऽयं राजसूयो महाक्रतुः। जनार्दनप्रसादाद्धि सम्पूर्णो मे मनोरथः
अथ यज्ञं समाप्यान्ते पूजयामास माधवम्। बलदेव च देवेशं भीष्माद्यांश्च कुरूद्वहान्
ततस्त्ववभृथस्नातं धर्मात्मानं युधिष्ठिरम्। समस्तं पार्थिवं क्षत्रमुपगम्येदमब्रवीत्
दिष्ट्या वर्धसि धर्मज्ञ साम्राज्यं प्राप्तवानसि। आजमीढाजमीढानां यशः संवर्धितं त्वया
कर्मणैतेन राजेन्द्र धर्मश्च सुमहान्कृतः। आपृच्छामो नरव्याघ्र सर्वकामैः सूपूजिताः
स्वराष्ट्राणि गमिष्यामस्तदनुज्ञातुमर्हसि। श्रुत्वा तु वचनं राज्ञां धर्मराजो युधिष्ठिरः