यथाबद्धूयमानाग्निं राजसूयं महाक्रतुम्। पाण्डवस्य यथाशास्त्रं जुहुवुः सर्वयाजकाः
व्यासधौम्यादयः सर्वे विधिवत्षोडशर्त्विजः। स्वस्वकर्माणि चक्रुस्ते पाण्डवस्य महाक्रतौ
नाषडङ्गविदत्रासीत्सदस्यो नाबहुश्रुतः। नाव्रतो नानुपाध्यायो न पापो नाक्षमो द्विजः
न तत्र कृपणः कश्चिद्दरिद्रो न बभूव ह। क्षुधितो दुःखितो वापि प्राकृतो वापि मानुषः
भोजनं भोजनार्थिभ्यो दापयामास सर्वदा। सहदेवो महातेजाः सततं राजशासनात्
संस्तरे कुशलाश्चापि सर्वकर्माणि याजकाः। दिवस दिवसे चक्रुर्यथाशास्त्रार्थचक्षुषः
ब्राह्मणा देवशास्त्रज्ञः कथाश्चक्रुश्च सर्वतः। रेमिरे च कथान्ते तु सर्वे तस्मिन्महाक्रतौ
सा वेदिर्वेदसम्पन्नैर्देवद्विजमहर्षिभिः। बभासे तदा कीर्णा नक्षत्रैर्द्यौरिवामला
पाण्डित्यदर्शनार्थाय केचन द्विजसत्तमाः। तर्कार्थमागताः केचित्केचिद्विद्याभिमानिनः
केचिद्दिदृक्षया केचिद्भीत्या राज्ञः प्रतापिनः। सर्वेऽप्यवभृथस्नाता याजकाः केचन द्विजाः
ततो वै हेमयूपांश्च सर्वरत्नसमाचितान्। शोभार्थं कारयामास सहदेवो महाद्युतिः
ददृशुस्तोरणान्यत्र हेमतालमयानि च। स यज्ञस्तोरणैस्तैश्च ग्रहैर्द्योरिव सम्बभौ
तालानां तोरणैर्हैमैर्दान्तैरिव दिशागजैः। दिक्षु सर्वासु विन्यस्तैस्तेजोभिर्भास्करैर्यथा
सकिरीटैर्नृपैश्चैव शुशुभे तत्सदस्तदा। देवैर्दिव्यैश्च यक्षैश्च उरगैर्दिव्यमानुषैः
विद्याधरगणैः कीर्णः पाण्डवस्य महात्मनः। स राजसूयः शुशुभे धर्मराजस्य धीमतः
गन्धर्वगणसङ्कीर्णः शोभितोऽप्सरसां गणैः। देवैर्मुनिगणैर्यक्षैर्देवलोक इवापरः
स किम्पुरुषगीतैश्च किन्नरैरुपशोभितः। नारदश्च जगौ तत्र तुम्बुरुश्च महाद्युतिः
विश्वासुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः। रमयन्ति स्म तान्सर्वान्यज्ञकर्मान्तरेष्वथ
तत्र चाप्सरसः सर्वाः सुन्दर्यः प्रियदर्शनाः। ननृतुश्च जगुश्चात्र नित्यं कर्मान्तरेष्वथ
इतिहासपुराणानि आख्यानानि च सर्वशः। ऊचुर्वै शब्दशास्त्रज्ञा नित्यं कर्मान्तरेष्वथ
भेर्यश्च मुरजाश्चैव मड्डुका गोमुखाश्च ये। शृङ्गवंशाम्बुजा वीणाः श्रूयन्ते स्म सहस्रशः
लोकेऽस्मिन्सर्वविप्राश्च वैश्याः शूद्रा नृपादयः। सर्वे म्लेच्छाः सर्वगणास्त्वादिमध्यान्तजास्तथा
नानादेशसमुद्भूतैर्नानाजातिभिरागतैः। पर्याप्त इव लोकोऽयं युधिष्ठिरनिवेशने
भीष्मद्रोणादयः सर्वे कुरवः ससुयोधनाः। वृष्णयश्च समग्राश्च पाञ्चालाश्चापि सर्वशः
यज्ञेऽस्मिन्सर्वकर्माणि चक्रुर्दासा इव क्रतौ। एवं प्रवृत्तो यज्ञः स धर्मराजस्य धीमतः
शुशुभे च महाबाहो सोमस्येव क्रतुर्यथा। वस्त्राणि कम्बलांश्चैव प्रावारांश्चैव सर्वदा
निष्कहेमजभाण्डानि भूषणानि च सर्वशः। प्रददौ तत्र विप्राणां धर्मराजो युधिष्ठिरः
यानि तत्र महीपालैर्लब्धवान्भरतर्षभः। तानि सर्वाणि रत्नानि ब्राह्मणानां ददौ तदा
ततः स कुरुराजस्य सर्वकर्मसमृद्धिमान्। यज्ञः प्रीतिकरो राजन्संबभौ विपुलोत्सवः
शान्तविघ्नः सुखारम्भः प्रभूतधनधान्यवान्। अन्नवान्बहुभक्ष्यश्च केशवेन सुरक्षितः