सदेवगन्धर्वगणा राजानो भुवि विश्रुताः। प्रणामं हि हृषीकेशे प्राकुर्वत महात्मनि
ये त्वासुरगणाः पक्षाः सम्भूताः क्षत्रिया इह। ते निन्दन्ति हृषीकेशं दुरात्मानो गतायुषः
प्रजापतिगणा ये तु मध्यस्थाश्च महात्मनि। ब्रह्मर्षयश्च सिद्धाश्च गन्धर्वोरगचारणाः
ते वै स्तुवन्ति गोविन्दं दिव्यैर्मङ्गलसंयुतैः। परस्परं च नृत्यन्ति गीतेन विविधेन च। उपतिष्ठन्ति गोविन्दं प्रीतियुक्ता महात्मनि
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः। ब्राह्मणाश्चापि सुप्रीताः पाण्डवाश्च महाबलाः
पाण्डवस्त्वब्रवीद्भातॄन्सत्कारेण महीपतिम्। दमघोषात्मजं शूरं संस्कारयत मा चिरम्
कुरुराजवचः श्रुत्वा भ्रातरस्ते त्वरान्विताः। तथा च कृतवन्तस्ते भ्रातुर्वै शासनं तदा
चेदीनामाधिपत्ये च पुत्रं तस्याज्ञया हरेः। अभ्यषिञ्चत तं पार्थः सहितैर्वसुधाधिपैः
ततः प्रववृते यज्ञो धर्मराजस्य धीमतः। शान्तविघ्नार्हणक्षोभो महर्षिगणसङ्कुलः
तं तु यज्ञं महाबाहुरासमाप्तेर्जनार्दनः। ररक्ष भगवाञ्छौरिः शार्ङ्गचक्रगदाधरः
तस्मिन्यज्ञे प्रवृत्ते तु वाग्मिनो हेतुवादिनः। हेतुवादान्बहून्प्राहुः परपक्षजिगीषवः
ददृशुस्ते नृपतयो यज्ञस्य विधिमुत्तमम्। उपेन्द्रस्येव विहितं सहदेवेन भारत
तद्यज्ञे न्यवसन्राजन्ब्राह्मणा भृशमुत्सुकाः। कथयन्तः कथाः पुण्याः पश्यन्तो नटनर्तकान्
ददृशुस्तोरणान्यत्र हेमतालमयानि च। दीप्तभास्करतुल्यानि प्रदीप्तानीव तेजसा
स यज्ञस्तोरणैस्तत्र ग्रहैर्द्योरिव सम्बभौ। शय्यासनविहारांश्च सुबहून्रत्नसंवृतान्
घटान्पात्रीकटाहानि कलशानि समन्ततः। न ते किञ्चिदसौवर्णमपश्यंस्तत्र पार्थिवाः
भुञ्जानानां च विप्राणां स्वादुभोज्यैः पृथग्विधैः। अनिशं श्रूयते तत्र मुदितानां महात्मनाम्
दीयतां दीयतामेषां भुज्यतां भुज्यतामिति। एवम्प्रकाराः सञ्जल्पाः श्रूयन्ते तत्र नित्यशः
ओदनानां विकाराणि स्वादूनि च बहूनि च। विविधआनि च भक्ष्याणि पेयानि मधुराणि च
ददुर्द्विजानां सततं राजप्रेष्या महाध्वरे। पूर्णे शतसहस्रे तु विप्राणां भुञ्जतां तदा
स्थापितस्तत्र सञ्ज्ञार्थं शङ्खोऽध्मायत नित्यशः। मुहुर्मुहुः प्रणादस्तु तस्य शङ्खस्य भारत
उत्तमः श्रूयते शब्दः श्रुत्वा विस्मयमागमन्। एवं प्रवृत्ते यज्ञे तु तुष्टपुष्टजनायुते
अन्नस्य बहुशो राजन्नुत्सेधाः पर्वतोपमाः। दधिकुल्याश्च ददृशुः सर्पिषश्च ह्रदाञ्जनाः
जम्बूद्वीपो हि सकलो नानाजनपदायुतः। राजन्नदृश्यतैकस्थो राज्ञस्तस्मिन्महाक्रतौ
तत्र राजसहस्राणि पुरुषाणां ततस्ततः। गृहीत्वा धनमाजग्मुस्तस्य राज्ञो महाक्रतौ
राजानः स्रग्विणश्चैव संमृष्टमणिकुण्डलाः। तान्परीविविषुर्विप्राञ्छतशोऽथ सहस्रशः
विविधान्यन्नपानानि लेह्यानि विविधानि च। तेषां नृपोपभोग्यानि ब्राह्मणेभ्यो ददुः स्म ते
नानाविधानि भक्ष्याणि स्वादुपुष्पफलानि च। गुलानि स्वादुक्षौद्राणि ददुस्ते ब्राह्मणेषु वै
एतानि सततं भुक्त्वा तस्मिन्यज्ञे द्विजातयः। परां प्रीतिं ययुः सर्वे मोदमानास्ततस्ततः
एवं प्रमुदितं सर्वं बहुशो धनधान्यवत्। यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं ययुः