कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह। रणैव सहसाऽनाशयत्तं जगत्प्रभुः
याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः। याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत्
गान्धर्वेण च गान्धर्वं मानवं मानवेन च। वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः
ऐन्द्रमैन्द्रेण भगवान्वैष्णवेन च वैष्णवम्। एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ
ततो मायां विकुर्वाणो दमगोषसुतो बली। गदामुसलसंयुक्ताञ्छक्तितोमरसायकान्
परश्वथमुसण्डीश्च ववर्ष युधि केशवम्। अमोघास्त्रेण भगवान्नाशयामास केशिहा
शिलावर्षं महाघोरं ववर्ष युधि चेदिराट्। वज्रास्त्रेणाभिसङ्क्रुद्धश्चूर्णं तदकरोत्प्रभुः
जलवर्षं ततो घोरं व्यस़जच्चेदिपुङ्गवः। वायव्यास्त्रेण भगवान्व्याक्षिपच्छतशो हि तत्
निहत्य सर्वमायां वै सुनीतस्य जनार्दनः। स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः
स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट्। दमघोषसुतो धृष्टमुवाच यदुपुङ्गवम्
अद्य कृष्णमकृष्णं तु कुर्वन्तु मम सायकाः। इत्येवमुक्त्वा दुष्टात्मा शरवर्षं जनार्दने
मुमोच पुरुषव्याघ्रो घोरं वै चेदिपुङ्गवः। शरसंङ्कृत्तगात्रस्तु क्षणेन यदुनन्दनः
रुधिरं परिसुस्राव मदं मत्त इव द्विपः। न यन्ता न रथो वापि न चाश्वाः पर्वतोपमाः
दृश्यन्ते शरसञ्छन्नाः केशवस्य महात्मनः। केशवं तदवस्थं तु दृष्ट्वा भूतानि चक्रुशुः
दारुकस्तु तदा प्राह कृष्णं यादवनन्दनम्। नेदृशो दृष्टपूर्वो हि सङ्ग्रामो वै पुरा मया
स्थातव्यमिति तिष्ठामि त्वत्प्रभावेण माधव। अन्यथा न च मे प्राणा धरायेयुर्जनार्दन
अतः सञ्चिन्त्य गोविन्द क्षिप्रमस्य वधं कुरु। एवमुक्तस्तु सूतेन केशवो वाक्यमब्रवीत्
एष ह्यतिबलो दैत्यो हिरण्यकशिपुः पुरा। रिपुः सुराणामभवद्वरदानेन गर्वितः
तथाऽऽसीद्रावणो नाम राक्षसो ह्यतिवीर्यवान्। तेनैव बलवीर्येण बलं नागणयन्मम
अहं मृत्युश्च भविता काले काले दुरात्मनः। न भेतव्यं तथा सूत नैष कश्चिन्मयि स्थिते
इत्येवमुक्त्वा भगवान्ननर्द गरुडध्वजः। पाञ्चजन्यं महाशङ्खं पूरयामास केशवः
संमोहयित्वा भगवांश्चक्रं दिव्यं समाददे। चिच्छेद च सुनीथस्य शिरश्चक्रेण संयुगे
स पपात महाबाहुर्वज्राहत इवाचलः। ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः
उत्पतन्तं महाराज गगनादिव भास्करम्। ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम्। ववन्दे तत्तदा तेजो विवेश च नराधिप
तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः। यद्विवेश महाबाहुं तत्तेजः पुरुषोत्तमम्
अनभ्रे प्रववर्ष द्यौः पपात ज्वलिताशनिः। कृष्णेन निहते चैद्ये चचाल न वसुन्धरा
ततः केचिन्महीपाला नाब्रुवंस्तत्र किञ्चन। अतीतवाक्पथे काले प्रेक्षमाणा जनार्दनम्
हस्तैर्हस्ताग्रमपरे प्रत्यपिंषन्नमर्षिताः। अपरे दशनैरोष्ठानदशन्क्रोधमूर्छिताः
रहश्च केचिद्वार्ष्णेयं प्रशशंसुर्नराधिपाः। केचिदेव सुसंरब्धा मध्यस्थास्त्वपरेऽभवन्
प्रहृष्टाः केशवं जग्मुः संस्तुवन्तो महर्षयः। ब्राह्मणाश्च महात्मानः पार्थिवाश्च महाबलाः। शशंसुर्निर्वृताः सर्वे दृष्ट्वा कृष्णस्य विक्रमम्