अयं त्वं भामकस्तीक्ष्णश्चेदिराज महाशरः। भेत्तुमर्हति वेगेन महाशनिरिवाचलम्
एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः। मुमोच निशितानन्यान्कृष्णं प्रति शरान्बहून्
अथ बाणार्दितः कृष्णः शार्ङ्गमायम्य दीप्तिमान्। मोच निशितान्बाणाञ्छतशोथ सहस्रशः
ताञ्छरांस्तु स चिच्छेद शरवर्षैस्तु चेदिराट्। षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः
ततोऽस्रं सहसा कृष्णः प्रमुमोच जगद्गुरुः। अस्त्रेण तन्महाबाहुर्वारयामास चेदिराट्
ततः शतसहस्रेण शराणां नतपर्वणाम्। सर्वतः समवाकीर्य शौरिं दामोदरं तदा
ननाद बलवान्क्रुद्धः शिशुपालः प्रतापवान्। इदं चोवाच संरब्धः केशवं परवीरहा
अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे। हत्वा त्वां समुतामात्यं पाण्डवांश्च तरस्विनः
अनृण्यमद्यय यास्यामि जरासन्धस्य धीमतः। कंसस्य केशिनश्चैव नरकस्य तथैव ह
इत्युक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम्। अदृश्यं शरवर्षेण सर्वतः स चकार ह
ततोऽस्त्रेणैव चान्योन्यं निकृत्य च शरान्बहून्। शरवर्षैस्तदा चैद्यमन्तर्धातुं प्रचक्रमे
अन्तर्धानगतौ वीरौ शुशुभाते महारथौ। तौ दृष्ट्वा सर्वभूतानि साधुसाध्वित्यपूजयन्
न दृष्टपूर्वमस्माभिर्युद्धमीदृशकं पुरा। ततः कृष्णं जघानाशु शुशुपालस्त्रिभिः शरैः
कृष्णोऽपि बाणैर्विव्याध सुनीथं पञ्चभिर्युधि। ततः सुनीथं सप्तत्या नाराचैर्दयद्बली
ततोऽतिविद्धः कृष्णेन सुनीथः क्रोधमूर्छितः। विव्याध निशितैर्बाणैर्वासुदेवं स्तनान्तरे
पुनः कृष्णं त्रिभिर्विद्ध्वा ननादावसरे नृपः। तोऽतिदारुणं युद्धं सहसा चक्रतुस्तदा
नौ नखैरिव शार्दूलौ दन्तैरिव महागजौ। दंष्ट्राभिरिव पञ्चास्यौ चरणैरिव कुक्कुटौ
दारयेतां शरैस्तीक्ष्णैरन्योन्यं युधि तावुभौ। ततो मुमुचतुः क्रुद्धौ शरवर्षमनुत्तमम्
शरैरेव शराञ्छित्वा तावुभौ पुरुषर्षभौ। चक्रातेऽस्त्रमयं युद्धं घोरं तदतिमानुषम्
आग्नेयमस्त्रं मुमुचे शिशुपालः प्रतापवान्। वारुणास्त्रेण तच्छ्रीघ्रं नाशयामास केशवः
कौबेरमस्त्रं सहसा चेदिराट् प्रमुमोच ह। रणैव सहसाऽनाशयत्तं जगत्प्रभुः
याम्यमस्त्रं ततः क्रुद्धो मुमुचे कालमोहितः। याम्येनैवास्त्रयोगेन याम्यमस्त्रं व्यनाशयत्
गान्धर्वेण च गान्धर्वं मानवं मानवेन च। वायव्येन च वायव्यं रौद्रं रौद्रेण चाभिभूः
ऐन्द्रमैन्द्रेण भगवान्वैष्णवेन च वैष्णवम्। एवमस्त्राणि कुर्वाणौ युयुधाते महाबलौ
ततो मायां विकुर्वाणो दमगोषसुतो बली। गदामुसलसंयुक्ताञ्छक्तितोमरसायकान्
परश्वथमुसण्डीश्च ववर्ष युधि केशवम्। अमोघास्त्रेण भगवान्नाशयामास केशिहा
शिलावर्षं महाघोरं ववर्ष युधि चेदिराट्। वज्रास्त्रेणाभिसङ्क्रुद्धश्चूर्णं तदकरोत्प्रभुः
जलवर्षं ततो घोरं व्यस़जच्चेदिपुङ्गवः। वायव्यास्त्रेण भगवान्व्याक्षिपच्छतशो हि तत्
निहत्य सर्वमायां वै सुनीतस्य जनार्दनः। स मुहूर्तं चकाराशु द्वन्द्वयुद्धं महारथः
स बाणयुद्धं कुर्वाणो भर्त्सयामास चेदिराट्। दमघोषसुतो धृष्टमुवाच यदुपुङ्गवम्