चन्द्रादित्यौ ग्रहाश्चैव नक्षत्राणि च भारत। वायुरग्निस्तथा चापः पृथिवी च जनार्दनात्
यस्य देशस्य हानिं वा वृद्धिं वा कर्तुमिच्छति। तस्मिन्देशे निमित्तानि तानि तानि करोत्ययम्
सोसौ चेदिपतेस्तात विनाशं समुपस्थितम्। निवेदयति गोविन्दः स्वैरुपायैर्न संशयः
इयं प्रचलिता भूमिरशिवा वान्ति मारुताः। राहुश्चाप्यपतत्सोममपर्वणि विशाम्पते
सनिर्घाताः पतन्त्युल्कास्तमः सञ्जायते भृशम्। चेदिराजविनाशाय हरिरेष विजृम्भते
एवमुक्त्वा तु देवर्षिर्नारदो विरराम ह। ताभ्यां पुरुषसिंहाभ्यां तस्मिन्युद्ध उपस्थिते
ददृशुर्भूमिपालास्ते घोरानौत्पातिकान्बहून्।। तत्र वै दृश्यमानानां दिक्षु सर्वासु भारत
अश्रूयन्त तदा राजञ्छिवानामशिवा रवाः।। ररास च मही कृत्स्ना सवृक्षवनपर्वता
अपर्वणि च मध्याह्ने मूर्यं स्वर्भानुरग्रसत्।। ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते
अपतत्खाच्च्युतो गृध्रस्तीक्ष्णतुण्डः परन्तप।। आरण्यैः सहसा हृष्टा ग्राम्याश्च मृगपक्षिणः
चुक्रुशुर्भैरवं तत्र तस्मिन्युद्ध उपस्थिते।। एवमादिनि घोराणि भौमानि च स्वगानि च
औत्पातिकान्यदृश्यन्त सङ्क्रुद्धे शार्ङ्गधन्वनि
ततो विष्फारयन्राजा महच्चैदिपतिर्धनुः। अभियास्यन्हृषीकेशमुवाच मधुसूदनम्
एकस्त्वमसि मे शत्रुस्तत्त्वां हत्वाऽद्य माधव। ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम्
द्वैरथं काङ्क्षितं यद्वै तदिदं पर्युपस्थितम्। चिरस्य वत मे दिष्ट्या वासुदेव सह त्वया। अद्य त्वां निहनिष्यामि भीष्मं च सह पाण्डवैः
एवमुक्त्वा स तं बाणैर्निशितैरत्ततेजनैः। विव्याध युधि तीक्ष्णाग्रैश्चेदिराड्यपुङ्गवम्?
कङ्कपत्रच्छदा बाणाश्चेदिराजधनुश्च्युताः। विविशुस्ते तदा कृष्णं भुजङ्गा इव पर्वतम्?
नाददानस्य चैद्यस्य शरानत्यस्यतोपि वा। दधृशुर्विवरं केचिद्गतिं वायोरिवाम्बरे?
चेदिराजमहामेधः शरजालाम्बुमांस्तदा। अभ्यवर्षद्धृषीकेशं पयोद इव पर्वतम्?
ततः शार्ङ्गममित्रघ्नः कृत्वा सशरमच्युतः। आबभाषे महबाहुः सुनीथं परवीरहा
अयं त्वं भामकस्तीक्ष्णश्चेदिराज महाशरः। भेत्तुमर्हति वेगेन महाशनिरिवाचलम्
एवं ब्रुवति गोविन्दे ततश्चेदिपतिः पुनः। मुमोच निशितानन्यान्कृष्णं प्रति शरान्बहून्
अथ बाणार्दितः कृष्णः शार्ङ्गमायम्य दीप्तिमान्। मोच निशितान्बाणाञ्छतशोथ सहस्रशः
ताञ्छरांस्तु स चिच्छेद शरवर्षैस्तु चेदिराट्। षड्भिश्चान्यैर्जघानाशु केशवं चेदिपुङ्गवः
ततोऽस्रं सहसा कृष्णः प्रमुमोच जगद्गुरुः। अस्त्रेण तन्महाबाहुर्वारयामास चेदिराट्
ततः शतसहस्रेण शराणां नतपर्वणाम्। सर्वतः समवाकीर्य शौरिं दामोदरं तदा
ननाद बलवान्क्रुद्धः शिशुपालः प्रतापवान्। इदं चोवाच संरब्धः केशवं परवीरहा
अद्याङ्गं मामका बाणा भेत्स्यन्ति तव संयुगे। हत्वा त्वां समुतामात्यं पाण्डवांश्च तरस्विनः
अनृण्यमद्यय यास्यामि जरासन्धस्य धीमतः। कंसस्य केशिनश्चैव नरकस्य तथैव ह
इत्युक्त्वा क्रोधताम्राक्षः शिशुपालो जनार्दनम्। अदृश्यं शरवर्षेण सर्वतः स चकार ह