अर्चाया बाहुभङ्गेन गृहस्थानां भयं भवेत्। भग्ने प्रहरणे विद्यात्सेनापतिविनाशनम्
आगन्तुका तु प्रतिमा स्थानं यत्र न विन्दति। जभ्यन्तरेण षण्मासाद्राजा त्यजति तत्पुरम्
प्रदीर्यते मही यत्र विनदत्यपि पात्यते। म्रियते तत्र राजा च तत्र राष्ट्रं विनश्यति
एणीपदान्वा सर्पान्वा डुण्डुभानथ दीप्यकान्। मण्डूको ग्रसते यत्र तत्र राजा विनश्यति
अभिन्नं वाप्यपक्वं वा यत्रान्नमुपचीयते। जीर्यन्ते वा म्रियन्ते वा तदन्नं नोपभुञ्जते
उदपाने च यत्रापो विवर्धन्ते युधिष्ठिर। स्थावरेषु प्रवर्तन्ते निर्गच्छेन्न पुनस्ततः
अपादं वा त्रिपादं वा द्विशीर्षं वा चतुर्भुजम्। स्त्रियो यत्र प्रसूयन्ते ब्रूयात्तत्र पराभवम्
अजैडकाः स्त्रियो गावो ये चान्ये च वियोनयः। विकृतानि प्रजायन्ते तत्र तत्र पराभवः
नदी यत्र प्रतिस्रोता आवहेत्कलुषोदकम्। दिशश्च न प्रकाशन्ते तत्पराभवलक्षणम्
एतानि च निमित्तानि यानि चान्यानि भारत। केशवादेव जायन्ते भौमानि च खगानि च
चन्द्रादित्यौ ग्रहाश्चैव नक्षत्राणि च भारत। वायुरग्निस्तथा चापः पृथिवी च जनार्दनात्
यस्य देशस्य हानिं वा वृद्धिं वा कर्तुमिच्छति। तस्मिन्देशे निमित्तानि तानि तानि करोत्ययम्
सोसौ चेदिपतेस्तात विनाशं समुपस्थितम्। निवेदयति गोविन्दः स्वैरुपायैर्न संशयः
इयं प्रचलिता भूमिरशिवा वान्ति मारुताः। राहुश्चाप्यपतत्सोममपर्वणि विशाम्पते
सनिर्घाताः पतन्त्युल्कास्तमः सञ्जायते भृशम्। चेदिराजविनाशाय हरिरेष विजृम्भते
एवमुक्त्वा तु देवर्षिर्नारदो विरराम ह। ताभ्यां पुरुषसिंहाभ्यां तस्मिन्युद्ध उपस्थिते
ददृशुर्भूमिपालास्ते घोरानौत्पातिकान्बहून्।। तत्र वै दृश्यमानानां दिक्षु सर्वासु भारत
अश्रूयन्त तदा राजञ्छिवानामशिवा रवाः।। ररास च मही कृत्स्ना सवृक्षवनपर्वता
अपर्वणि च मध्याह्ने मूर्यं स्वर्भानुरग्रसत्।। ध्वजाग्रे चेदिराजस्य सर्वरत्नपरिष्कृते
अपतत्खाच्च्युतो गृध्रस्तीक्ष्णतुण्डः परन्तप।। आरण्यैः सहसा हृष्टा ग्राम्याश्च मृगपक्षिणः
चुक्रुशुर्भैरवं तत्र तस्मिन्युद्ध उपस्थिते।। एवमादिनि घोराणि भौमानि च स्वगानि च
औत्पातिकान्यदृश्यन्त सङ्क्रुद्धे शार्ङ्गधन्वनि
ततो विष्फारयन्राजा महच्चैदिपतिर्धनुः। अभियास्यन्हृषीकेशमुवाच मधुसूदनम्
एकस्त्वमसि मे शत्रुस्तत्त्वां हत्वाऽद्य माधव। ततः सागरपर्यन्तां पालयिष्यामि मेदिनीम्
द्वैरथं काङ्क्षितं यद्वै तदिदं पर्युपस्थितम्। चिरस्य वत मे दिष्ट्या वासुदेव सह त्वया। अद्य त्वां निहनिष्यामि भीष्मं च सह पाण्डवैः
एवमुक्त्वा स तं बाणैर्निशितैरत्ततेजनैः। विव्याध युधि तीक्ष्णाग्रैश्चेदिराड्यपुङ्गवम्?
कङ्कपत्रच्छदा बाणाश्चेदिराजधनुश्च्युताः। विविशुस्ते तदा कृष्णं भुजङ्गा इव पर्वतम्?
नाददानस्य चैद्यस्य शरानत्यस्यतोपि वा। दधृशुर्विवरं केचिद्गतिं वायोरिवाम्बरे?
चेदिराजमहामेधः शरजालाम्बुमांस्तदा। अभ्यवर्षद्धृषीकेशं पयोद इव पर्वतम्?
ततः शार्ङ्गममित्रघ्नः कृत्वा सशरमच्युतः। आबभाषे महबाहुः सुनीथं परवीरहा