समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहंगमः। सर्वं संभावयाम्यस्मिन्नसाध्यमपि साधयेत्
श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः। महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः
युष्मान्संबोधयाम्येष `गृहीत्वावरणायुधान्। परिवार्यामृतं सर्वे यूयं मद्वचनादिह
रक्षध्वं विबुधा वीरा' यथा न स हरेद्बलात्। अतुलं हि बलं तस्य बृहस्पतिरुवाच ह
तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः। परिवार्यामृतं तस्थूर्वज्री चेन्द्रः प्रतापवान्
धारयन्तो विचित्राणि काञ्चनानि मनस्विनः। कवचानि महार्हाणि वैदूर्यविकृतानि च
चर्माण्यपि च गात्रेषु भानुमन्ति दृढानि च। विविधानि च शस्त्राणि घोररूपाण्यनेकशः
शिततीक्ष्णाग्रधाराणि समुद्यम्य सुरोत्तमः। सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः
चक्राणि परघांश्चैव त्रिशूलानि परश्वधान्। शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान्। स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः
तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः। भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः
अनुपमबलवीर्यतेजसो धृतमनसः परिरक्षणेऽमृतस्य। असुरपुरविदारणाः सुरा ज्वलनसमिद्धवपुःप्रकाशिनः
इति समरवरं सुराः स्थितास्ते परिघसहस्रशतैः समाकुलम्। विगलितमिव चाम्बरान्तरं तपनमरीचिविकाशितं बभासे
कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज। तपसा वालखिल्यानां संभूतो गरुडः कथम्
कश्यपस्य द्विजातेश्च कथं वै पक्षिराट् सुतः। अधृष्टः सर्वभूतानामवध्यस्चाभवत्कथम्
कथं च कामचारी स कामवीर्यश्च खेचरः। एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते
विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि। शृणु मे वदतः सर्वमेतत्संक्षेपतों द्विज
यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः। साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल
तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह। मुनयो वालखिल्याश्च ये चान्ये देवतागणाः
शक्रस्तु वीर्यसदृशमिध्यभारं गिरिप्रभम्। समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः
अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरवर्ष्मणः। पलाशवर्तिकामेकां वहतः संहतान्पथि
प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान्। क्लिश्यमानान्मन्दबलान्गोष्पदे संप्लुतोदके
तान्सर्वान्विस्मयाविष्टो वीर्योन्मत्तः पुरन्दरः। अपहास्याभ्यगाच्छीघ्रं लम्बयित्वाऽवमन्य च
तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः। आरेभिरे महत्कर्म तदा शक्रभयंकरम्
जुहुवुस्ते सुतपसो विधिवज्जातवेदसम्। मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु
कामवीर्यः कामगमो देवराजभयप्रदः। इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः
इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः। तपसो नः फलेनाद्य दारुणः संभवित्विति
तद्बुद्ध्वा भृशसंतप्तो देवराजः शतक्रतुः। जगाम शरणं तत्र कश्यपं संशितव्रतम्
तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः। वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत
केन कामेन चारब्धं भवद्भिर्होमकर्म च। याथातथ्येन मे ब्रूत श्रोतुं कौतूहलं हि मे
अवज्ञाताः सुरेन्द्रेण मूढेनाकृतबुद्धिना। ऐश्वर्यमदमत्तेन सदाचारान्निरस्यता