अन्तरिक्षे च भूमौ च तेऽस्त्यविदितं क्वचित्। यानि राजविनाशाय भौमानि च खगानि च
निमित्तानीह जायन्ते उत्पाताश्च पृथग्विधाः। एतदित्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने
इत्येवं मितमान्विप्रः कुरुराजस्य धीमतः। पृच्छतः सर्वमव्यग्रमाचचक्षे महायशाः
पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम्। आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रतिसर्पणम्
पश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम्। दर्शनादर्शनं चैव अदृश्यानां च दर्शनम्
हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम्। सर्वमेतत्परीक्षेत ग्रहाणां ग्रहकोविदः
भौमाः पूर्वं प्रवर्तन्ते खेचराश्च ततः परम्। उत्पद्यन्ते च लोकेऽस्मिन्नुत्पाता देवनिर्मिताः
यदा तु सर्वभूतानां छाया न परिवर्तते। अपरेण गते सूर्ये तत्पराभवलक्षणम्
अच्छाये विमलच्छाया प्रतिच्छायेव दृश्यते। यत्र चैत्यकवृक्षाणां तत्र विद्यान्महद्भयम्
शीर्णपर्णप्रवालाश्च शुष्कपर्णाश्च चैत्यकाः। अपभ्रष्टप्रवालाश्च तत्राभावं विनिर्दिशेत्
स्निग्धपर्णप्रवालाश्च दृश्यन्ते यत्र चैत्यकाः। ईहमानाश्च वृक्षाश्च भावस्तत्र न संशयटः
पुष्पे पुष्पं प्रजायेत फले वा फलमाश्रितम्। राजा वा राजमात्रो वा मरणायोपपद्यते
प्रावृट्छरदि हेमन्ते वसन्ते वापि सर्वशः। आकालिकं पुष्पफलं राष्ट्रक्षोभं विनिर्दिशेत्
नदीनां स्त्रोतसोऽकाले द्योतयन्ति महाभयम्। वनस्पतिः पूज्यमानः पूजितोऽपूजितोऽपि वा
यदा भज्येत वातेन भिद्यते नमितोऽपि वा। अग्निवायुभयं विद्याच्छ्रेष्ठो वापि विनश्यति
दिशः सर्वाश्च दीप्यन्ते जायन्ते राजविभ्रमाः। भिद्यमानो यदा वृक्षो निनदेच्चापि पातितः। सह राष्ट्रं च पतितं नतं वृक्षं प्रपातयेत्
अथैनं छेदयेत्कश्चित्प्रतिक्रुद्धो वनस्पतिः। छेत्ता भेत्ता पतिश्चैव क्षिप्रमेव नशिष्यति
देवतानां च पतनं मष्टपानां च पातनम्। अचलानां प्रकम्पश्च तत्पराभवलक्षणम्
निशि चेन्द्रधनुर्दृष्टं ततोपि च महद्भयम्। तद्द्रष्टरेव भीतिः स्यान्नान्येषां भरतर्षभ
रात्राविन्द्रधनुर्दृष्ट्वा तद्राष्ट्रं परिवर्जयेत्
अर्चा यत्र प्रनृत्यन्त नदन्ति च हसन्ति च। उन्मीलन्ति निमीलन्ति राष्ट्रक्षोभं विनिर्दिशेत्
शिला यदि प्रसिञ्चन्ति स्नेहांश्चोदकसम्भवान्। अन्यद्वा विकृतं किञ्चित्तद्भयस्य निदर्शनम्
म्रियन्ते वा महामात्रा राजा सपरिवारकः। पुरस्य या भवेद्व्याधी राष्ट्रे देशे च विभ्रमाः
देवतानां यदाऽऽवासे राज्ञां वा यत्र वेश्मनि। भाण्डागारायुधागारे निविशेत यदा मधु
सर्वं तदा भवेत्स्थानं हन्यमानं बलीयसा। आगन्तुकं भयं तत्र भवेदित्येव निर्दिशेत्
पादपश्चैव यो यत्र रक्तं स्रवति शोणितम्। दन्ताग्रात्कुञ्जरो वापि शृङ्गाद्वा वृषभस्तथा
पादपाद्राष्ट्रिविभ्रंशः कुञ्जराद्राजविभ्रमः। गोब्राह्मणविनाशः स्याद्वृवभस्येति निर्दिशेत्
छत्रं नरपतेर्यत्र निपतेत्पृथिवीतले। सराष्ट्रो नृपती राजन्क्षिप्रमेव विनश्यति
देवागारेषु वा यत्र राज्ञो वा यत्र वेश्मनि। विकृतं यदि दृश्येत नागावासेषु वा पुनः
तस्य देशस्य पीडा स्याद्राज्ञो जनपदस्य वा। अनावृष्टिभयं घोरमतिदुर्भिक्षमादिशेत्