विशालराज्ञो दुहितां मम पित्रा वृतां सतीम्। अनेन कृत्वा सन्धानं करूशेन जिगीषया
जरासन्धं समाश्रित्य कृतवान्विप्रियाणि मे। तानि सर्वाणि सङ्ख्यातुं न शक्नोमि नराधिपाः
एवमेतदपर्यन्तमेष वृष्णिषु किल्बिषी। अस्माकमयमारम्भांश्चकार परभानृजुः
शतं क्षन्तव्यमस्माभिर्वधार्हाणां किलागसाम्। बद्धोऽस्मि समयैर्घोरैर्मातुरस्यैव सङ्गरे
तत्तथा शतमस्माकं क्षान्तं क्षयकरं मया। द्वौ तु मे वधकालेऽस्मिन्न क्षन्तव्यौ कथञ्चन
यज्ञविघ्नकरं हन्यां पाण्डवानां च दुर्हृदम्। इति मे वर्तते भावस्तमतीयां कथं न्वहम्
पितृष्वसुः कृते दुःखं सुमहन्मर्षयाम्यहम्। दिष्ट्या हीदं सर्वराज्ञां सन्निधावद्य वर्तते
पश्यन्ति हि भवन्तोऽद्य मय्यतीव व्यतिक्रमम्। कृतानि तु परोक्षं मे यानि तानि निबोधत
इमं त्वस्य न शक्ष्यामि क्षन्तुमद्य व्यतिक्रमम्। अवलेपाद्वधार्हस्य समग्रे राजमण्डले
रुक्मिण्यामस्य मूढस्य प्रार्थनाऽऽसीन्मुमूर्षतः। न च तां प्राप्तवान्मूढः शूद्रो वेदश्रुतीमिव
एवमादि ततः सर्वे सहितास्ते नराधिपाः। गर्हणं शिशुपालस्य वासुदेवेन विश्रुतः
वासुदेववचः श्रुत्वा चेदिराजं व्यगर्हयन्। रथोपस्थे धनुष्मन्तं शरान्सन्दधतं रुषा
श्रुत्वाऽपि च विलोक्याशु दुद्रुवुः सर्वपार्थिवाः। विहाय परमोद्विग्नाश्चेदिराजं चमूमुखे
तस्य तद्वचनं श्रुत्वा शिशुपालः प्रतापवान्। जहास स्वनवद्धासं वाक्यं चेदमुवाच ह
मत्पूर्वां रुक्मिणीं कृष्ण संसत्सु परिकीर्तयन्। विशेषतः पार्थिवेषु व्रीडां न कुरुषे कथम्
मन्यमानो हि कः सत्सु पुरुषः परिकीर्तयेत्। अन्यपूर्वा स्त्रियं जातु त्वदन्यो मधूसूदन
क्षमा वा यदि ते श्रद्धा मा वा कृष्ण मम क्षम। क्रुद्धाद्वापि प्रसन्नाद्वा किं मे त्वत्तो भविष्यते
स तांस्तु विद्रुतान्सर्वान्साश्वपत्तिरथद्विपान्। कृष्णतेजोहतान्सर्वान्समीक्ष्य वसुधाधिपान्
शिशुपालो रथेनैकः प्रत्युपायात्स केशवम्। रुषा ताम्रेक्षणो राजञ्छलभः पावकं यथा
ततो युद्धाय संनद्धं चेदिराजं युधिष्ठिरः। दृष्ट्वा मतिमतां श्रेष्ठो नारदं समुवाच ह
अन्तरिक्षे च भूमौ च तेऽस्त्यविदितं क्वचित्। यानि राजविनाशाय भौमानि च खगानि च
निमित्तानीह जायन्ते उत्पाताश्च पृथग्विधाः। एतदित्छामि कार्त्स्न्येन श्रोतुं त्वत्तो महामुने
इत्येवं मितमान्विप्रः कुरुराजस्य धीमतः। पृच्छतः सर्वमव्यग्रमाचचक्षे महायशाः
पराक्रमं च मार्गं च संनिपातं समुच्छ्रयम्। आरोहणं कुरुश्रेष्ठ अन्योन्यं प्रतिसर्पणम्
पश्मीनां व्यतिसंसर्गं व्यायामं वृत्तिपीडनम्। दर्शनादर्शनं चैव अदृश्यानां च दर्शनम्
हानिं वृद्धिं च ह्रासं च वर्णस्थानं बलाबलम्। सर्वमेतत्परीक्षेत ग्रहाणां ग्रहकोविदः
भौमाः पूर्वं प्रवर्तन्ते खेचराश्च ततः परम्। उत्पद्यन्ते च लोकेऽस्मिन्नुत्पाता देवनिर्मिताः
यदा तु सर्वभूतानां छाया न परिवर्तते। अपरेण गते सूर्ये तत्पराभवलक्षणम्
अच्छाये विमलच्छाया प्रतिच्छायेव दृश्यते। यत्र चैत्यकवृक्षाणां तत्र विद्यान्महद्भयम्
शीर्णपर्णप्रवालाश्च शुष्कपर्णाश्च चैत्यकाः। अपभ्रष्टप्रवालाश्च तत्राभावं विनिर्दिशेत्